________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
दुष्टचारिणं रावणं विवशा कामपरवशा सती उपतिष्ठेत किंनु ? नेत्यर्थः ॥ ६ ॥ रामानु० किंन्विति । सीतेत्यनेन अयोनिजत्वमयुक्तशिष्टयं योत्यते । अवशब्दार्थो गुणसमुच्चयः । वैदेहीत्यनेन देशसंवन्धकृतं वेशिष्टचम्, मैथिलीत्यनेन सदाचारयुक्तसत्पुरुषवासभूतनगरसंबन्धकृत वैशिष्टयम्, जनकात्मजेत्यनेन " कर्मणैव हि संसिद्धिमास्थिता जनकादयः " इति प्रसिद्ध जनकसंबन्धकृत वैशिष्ट्यम् । एवंगुणविशिष्टा देवी दुष्टचारिणं रावणम् उपतिष्ठेत किन्तु मित्रत्वेन प्राप्नुयाकिंनु ? न प्राप्नुयादेवेत्यर्थः । " उपाद्देवपूजासङ्गतिकरण | मित्रकरणपथिष्विति वक्तव्यम्" इत्यात्मनेपदम् ॥ ६ ॥ अथास्या अदर्शने हेतूनुत्प्रेक्षते - क्षिप्रमित्यादिना । रामवाणानां रामबाणेभ्यः ॥ ७ ॥ अथवेति । क्षिप्रमुत्पततो मन्ये सीतामादाय रक्षसः । विभ्यतो रामवाणानामन्तरा पतिता भवेत् ॥ ७ ॥ अथवा ह्रियमा णायाः पथि सिद्धनिषेविते । मन्ये पतितमार्याया हृदयं प्रेक्ष्य सागरम् ॥ ८ ॥ रावणस्योरुवेगेन भुजाभ्यां पीडि तेन च । तया मन्ये विशालाक्ष्या त्यक्तं जीवितमार्यया ॥ ९ ॥ उपर्युपरि वा नूनं सागर क्रमतस्तथा । विवेष्ट माना पतिता समुद्रे जनकात्मजा ॥ १० ॥ अहो क्षुद्रेण वाऽनेन रक्षन्ती शीलमात्मनः । अबन्धुर्भक्षिता सीता रावणेन तपस्विनी ॥११॥ अथवा राक्षसेन्द्रस्य पत्नीभिर सिक्षणा । अदुष्टा दुष्टभावाभिर्भक्षिता सा भविष्यति ॥ १२ ॥ सागरं प्रेक्ष्य भीतं हृदयं सागरे पतितमिति मन्ये । हृदयस्य भयस्थानत्वेन तन्मूलतया तच्छरीरं लक्ष्यते ॥ ८ ॥ पीडितेन पीडनेन ॥ ९॥ उपर्युपरि सागरं सागरस्य सन्निहितोपरिप्रदेशे । “उपर्यध्यवसस्सामीप्ये " इति द्विर्वचनम् । " धिगुपर्यादिषु त्रिषु ” इति द्वितीया ॥ १० ॥ अहो || इति खेदे ॥ ११ ॥ दुष्टभावाभिः सापत्न्यप्रयुक्तक्रोधाभिः ॥ १२ ॥ १३ ॥
श्वार्थी गुणसमुच्चयपरः । वैदेहीत्यनेन देशसम्बन्ध कृतवैशिष्ट्यम्, मैथिलीत्यनेन सदाचारयुक्तसत्पुरुषावासनगर सम्बन्धनिबन्धनवैशिष्ट्यम्, जनकात्मजेत्य नेन 'कर्मणैव हि संसिद्धिमास्थिता जनकादयः' इति प्रसिद्धजनकसम्बन्धकृतवैशिष्टयम् । एवङ्गुणविशिष्टा देवी दुष्टचारिणं रावणमुपतिष्ठेत किन्नु मित्रत्वेन प्राप्तु यात्किनु ? न प्राप्नुयादेवेत्यर्थः ॥ ६ ॥ अदर्शने हेतुनाह क्षिप्रमित्यादिना । रामवाणानां वाणेभ्यः ॥ ७ ॥ रामपरोक्षं तथा भयायोगात्पक्षान्तरम् अथवेति । हृदयं पतितं मन उत्क्रान्तम्, मनउत्क्रमणस्येव मरणत्वात् ॥ ८ ॥ पीडितेन पीडनेन ॥ ९-१४ ॥
स०-क्षिप्रमिति । यद्यपि सम्पातिना लङ्कायां सीताऽस्तीत्यभिधानादेवमायुत्प्रेक्षा न शक्या कर्तुम् । तथापि सम्पात्युक्तरीत्याऽन्वेषणेऽपि यतो न दृश्यते अतस्तद्वचनमेव विचारणीयमिति मतिमतो हनुमतः सा युक्तेति ज्ञेयम् ॥ ७ ॥ अवन्धुः असन्निहितबन्धुः ॥ ११ ॥
For Private And Personal