________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
बा.रा.भू.
हा रामेति । न्यस्तदेद्दा त्यक्तदेहा । भविष्यति भवेदित्यर्थः ॥ १४ ॥ निहिता भूगृहादौ गूढं स्थापिता । लालप्यते मुहुर्मुहुः प्रलपति ॥ १५ ॥ * एवं निरुद्धयमानापि सीता रावणस्य वशं न व्रजेदित्याह जनकस्येति । कथं व्रजेत् ? न बजेदेवेत्यर्थः ॥ १६ ॥ ननु किं चिन्तया, गत्वा यथावृत्तं ॥४६॥ ७ निवेद्यतामित्याशङ्कय तदनुचितमित्याह - विनष्टेति । विनष्टा भूगृहादौ स्थापनेनादर्शनं गता । " णश अदर्शने " इति धातोर्निष्ठा । प्रनष्टा
सम्पूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणम् । रामस्य ध्यायती वक्रं पञ्चत्व कृपणा गता ॥ १३ ॥ हा राम लक्ष्मणेत्येवं हाऽयोध्ये चेति मैथिली । विलप्य बहु वैदेही न्यस्तदेहा भविष्यति ॥ १४ ॥ अथवा निहिता मन्ये रावणस्य निवेशने । नूनं लालप्यते सीता पञ्जरस्थेव शारिका ॥ १५ ॥ जनकस्य सुता सीता रामपत्नी सुम ध्यमा । कथमुत्पलपत्राक्षी रावणस्य वशं व्रजेत् ॥ १६ ॥ विनष्टा वा प्र (ण) नष्टा वा मृता वा जनकात्मजा । रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम् ॥ १७ ॥ निवेद्यमाने दोषः स्याद्दोषः स्यादनिवेदने । कथन्नु खलु कर्तव्यं विषमं प्रतिभाति मे ॥ १८ ॥ अस्मिन्नेवं गते कार्ये प्राप्तकालं क्षमं च किम् । भवेदिति मतं भूयो हनुमान प्रवि चारयत् ॥ १९ ॥ यदि सीतामदृष्ट्वाऽहं वानरेन्द्रपुरीमितः । गमिष्यामि ततः को मे पुरुषार्थो भविष्यति ॥ २० ॥ समुद्रपतनादिना त्यक्तजीविता । ( " उपसर्गादिसमासेपि णोपदेशस्य " इति णत्वम् ।) मृता रामविरहदुःखासहिष्णुतया स्वयं मृता ॥ १७ ॥ निवेद्यमाने वक्ष्यमाणो दोपः स्यात् । दोपः स्यादनिवेदने यथावृत्तानिवेदने स्वामिवञ्चनदोपः स्यात् । विपमं परस्परविरुद्धम् ॥ १८ ॥ अस्मिन्निति । हनुमान् अस्मिन्कार्ये एवं गते एवं विपमत्वं प्राप्ते सति । किं प्राप्तकालं कालोचितं क्षमं समर्थ च भवेदिति मतं पक्षम् । भूयः प्रविचारयत् ॥ १९ ॥ २० ॥ निहितां भूगृहादा स्थापितां मन्ये ॥ १५ ॥ एवं पीड्यमानापि सीता रावणस्य वशं न व्रजेदित्याह-जनकस्येति ॥ १६ ॥ ननु किमेतादृशविचारण ? गत्वा यथावृत्तं निवेद्यतामित्यत आह-विनष्टेत्यादि । दृश्यदेशे मायया अदर्शनं विनाशः, अदृश्यदेशे अवस्थानं प्रणाशः । रामविश्लेषजनितदुःखेन स्वयं मृता वा ॥ १७ ॥ दोषो वक्ष्यमाणः, अनिवेदने यथावृत्तान्ताकथने दोष: स्वामिवञ्चनकरणरूपः स्यात् ॥ १८ ॥ अस्मिन्निति । प्राप्तकालं कालोचितम् । क्षमं समर्थ किं स०-रिपुभियोधयितुं शक्यो योग्यः । स न भवतीत्ययोध्यः, तस्य सम्बुद्धिः । हाऽयोध्येत्युपपन्नम् । (हाइयोध्येति च इति पाठो मन्तुिमर्हति ) ॥ १४ ॥
For Private And Personal
टी. सुं.की.
स० १३
॥४६॥