________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
Mपुरुषार्थाभावमाह-ममेदामिति ॥२१॥ २२॥ निवेद्यमाने दोषः स्यादित्येतदुपपादयति-गवेत्यादिना । अप्रियमिति च्छेदः ॥ २३ ॥ परुषं श्रवण
ममेदं लङ्घनं व्यर्थ सागरस्य भविष्यति । प्रवेशश्चैव लङ्काया राक्षसानां च दर्शनम् ॥ २१ ॥ किं मां वक्ष्यति सुग्रीवो हरयो वा समागताः । किष्किन्धा समनुप्राप्तं तौ वा दशरथात्मजौ ॥ २२ ॥ गत्वा तु यदि काकुत्स्थं वक्ष्यामि परमप्रियम् । न दृष्टेति मया सीता ततस्त्यक्ष्यति जीवितम् ॥ २३ ॥ परुषं दारुणं क्रूरं तीक्ष्णमिन्द्रिय तापनम् । सीतानिमित्तं दुर्वाक्यं श्रुत्वा स न भविष्यतिः॥ २४ ॥ तं तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगतमानसम् । भृशानुरक्तो मेधावीन भविष्यति लक्ष्मणः ॥ २५ ॥ विनष्टौ भ्रातरौ श्रुत्वा भरतोऽपि मरिष्यति । भरतं च मृतं दृष्ट्वा शत्रुघ्नो न भविष्यति ॥२६॥ पुत्रान मृतान समीक्ष्याथ न भविष्यन्ति मातरः । कौसल्या च सुमित्रा च कैकेयी च न संशयः ॥ २७ ॥ कृतज्ञः सत्यसन्धश्च सुग्रीवः प्लवगाधिपः । रामं तथागतं दृष्ट्वा ततस्त्यक्ष्यति जीवितम् ॥ २८॥ दुर्मना व्यथिता दीना निरानन्दा तपस्विनी । पीडिता भर्तृशोकेन रुमा त्यक्ष्यति जीवितम् ॥२९॥ वालिजेन तु दुःखेन पीडिता शोककर्शिता । पञ्चत्वं च गते राज्ञि तारापि न भविष्यति ॥ ३०॥ माता पित्रोविनाशेन सुग्रीवव्यसनेन च । कुमारोऽप्यङ्गदः कस्माद्धारयिष्यति जीवितम् ॥ ३१ ॥ कटुकम् । दारुणं भयंकरम् । क्रूरम् उग्रम् । तीक्ष्णम् असह्यम् । इन्द्रियतापनम् इन्द्रियक्षोभकम् । सीतानिमित्तं सीताविषयम् ॥ २४ ॥ तं विति । भवेत इति मतं पक्ष भूयः प्रविचारयत् प्रव्यचारयत् ॥ १९-२३ ॥ परुष कर्णकठोरम् । दारुणं भयङ्करम् । फरमुखम् । तीक्ष्णमसह्यम् । इन्द्रियतापनम् इन्द्रिय क्षोभकम् । स रामः ।। २४ ॥ पश्चत्वगतमानस मरणे कृतनिश्चयम् ॥ २५-३३॥ | स-सत्यसन्धः प्रागिति शेषः । यद्वा मनसा मीतां सम्बोष वदति-सतीति । असन्धः अनियनसप्रतिक्षः । अथवा अनुवादेन सीताया अनानयने प्राणांस्त्वक्ष्यामीति पाद ऊधः । ततश्च सत्यसन्ध इति यथावस्थितमन्वेति ॥ २८ ॥
For Private And Personal