________________
Shri Mahavir Jain Arachara Kendra
www.kobaith.org
Acharya Sh Kalashsagarsun Gyarmandir
चा.रा.भू.
॥४७॥
पञ्चत्वगतमानसं मरणे कृतनिश्चयम् ॥२५-३२॥ सान्त्वेनेति । मानेन प्रत्युत्थानादिना ॥ ३३ ॥ न वनेविति । निरोधेषु गृहादिसंवृत प्रदेशेषु ॥३४॥३५॥ विषमिति। प्रचरिष्यन्ति करिष्यन्तीत्यर्थः । शस्त्रं शस्त्रपतनम् ॥ ३६॥ घोरमिति । आरोदनम् आ समन्तादोदनम् ॥३७-३९॥
भर्तृजेन तु दुःखेन ह्यभिभूता वनौकसः । शिरांस्यभिहनिष्यन्ति तलैर्मुष्टिभिरेव च ॥ ३२ ॥ सान्त्वना नुप्रदानेन मानेन च यशस्विना। लालिताः कपिराजेन प्राणांस्त्यक्ष्यन्ति वानराः ॥३३॥ न वनेषु न शैलेषु न निरोधेषु वा पुनः क्रीडामनुभविष्यन्ति समेत्य कपिकुञ्जराः ॥ ३४॥ सपुत्रदाराःसामात्या भर्तृव्यसनपीडिताः। शैलाग्रेभ्यः पतिष्यन्ति समेत्य विषमेषु च ॥ ३५॥ विषमुद्न्धनं वापि प्रवेशं ज्वलनस्य वा । उपवासमथो शस्त्रं प्रचरिष्यन्ति वानराः ॥३६॥ घोरमारोदनं मन्ये गते मयि भविष्यति । इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम् ॥ ३७॥ सोऽहं नैव गमिष्यामि किष्किन्धा नगरीमितः। न च शक्ष्याम्यहं द्रष्टुं सुग्रीवं मैथिली विना ॥३८॥ मय्य गच्छति चेहस्थे धर्मात्मानौ महारथौ । आशया तौ धरिष्येते वानराश्च मनस्विनः ॥ ३९ ॥ हस्तादानो मुखादानो नियतो वृक्षमूलिकः। वानप्रस्थो भविष्यामि ह्यदृष्ट्वा जनकात्मजाम् ॥४०॥ सागरानूपजे देशे बहुमूलफलोदके। चितां कृत्वा प्रवेक्ष्यामि समिद्धमरणीसुतम् ॥४१॥ उपविष्टस्य वा सम्यग लिङ्गिनी साधयिष्यतः । शरीरं भक्ष यिष्यन्ति वायसाः श्वापदानि च ॥ ४२ ॥ हस्तेति । इस्तादानः हस्तपतितभोजी । मुखादानः मुखपतितभोजी । वृक्षमूलिकः वृक्षमूलवासी ॥ ४० ॥ सागरानूपज इति । बहुमूलफलोदक इति स्वरूपकथनम् । अरणीसुतम् अरण्युत्पन्नम् ॥ ११ ॥ उपविष्टस्य प्रायोपविष्टस्य । लिङ्गिनीम्, लिङ्गं संन्यासः अनशनं तद्वती लिङ्गिनी ताम् साथ नेति। निरोधेषु गृहादिसंघृतप्रदेशेषु ॥३४-३८॥धरिष्यति, प्राणानिति शेषः॥३९॥ इस्तादानः हस्तपतितफल पर्णाद्याशी। मुखादानः मुखपतितमोजी। वृक्षमूलिका सावक्षमूलवासी ॥४०॥ अरणीतम् अनिम् ॥४१॥ उपविष्टस्य प्रायोपविष्टस्य । लिङ्गिन लि, शरीरमस्यास्तीति लिङ्गी तम्, आत्मानमित्यर्थः । साधयिष्यतः
IN४॥
For Private And Personal