SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatith.org Acharya Shri Kalashsagarsun Gyarmandir भूमीगृहान् भूमीबिलगृहान् । चैत्यगृहान् चतुष्पथमण्डपान् । गृहातिगृहकान गृहानतीत्य दूरे स्वैरविहारार्थ निर्मितान् गृहान् ॥ १४॥ उत्पतन्नि पतन् पूर्वमुच्चस्थानान्यधिरुह्य ततोऽवरोहन् । अवघाटयन् पाटयन् ॥ १५ ॥ निष्पतन निर्गच्छन् । प्रपतनुत्पतन बिलगृहादीनि नीचस्थानानि प्रथम इति संचिन्त्य भूयोऽपि विचेतुमुपचक्रमे । भूमीग्रहांश्चैत्यगृहान् गृहातिगृहकानपि ॥ १४॥ उत्पतन्निपतंश्चापि तिष्ठन् गच्छन् पुनः पुनः । अपावृण्वंश्च द्वाराणि कपाटान्यवघाटयन् ॥ १५॥ प्रविशन्निष्पतंश्चापि प्रपतन्नुत्पत न्नपि । सर्वमप्यवकाशंस विचचार महाकपिः ॥ १६॥ चतुरङ्गुलमात्रोऽपि नावकाशः स विद्यते । रावणान्तःपुरे तस्मिन् यं कपिर्न जगाम सः ॥ १७॥ प्राकारान्तररथ्याश्च वेदिकाश्चैत्यसंश्रयाः । दीर्घिकाः पुष्करिण्यश्च सर्वं तेनावलोकितम् ॥ १८॥ राक्षस्यो विविधाकारा विरूपा विकृतास्तथा । दृष्टा हनुमता तत्र न तु सा जनका त्मजा ॥ १९॥ रूपेणाप्रतिमा लोके वरा विद्याधरस्त्रियः। दृष्टा हनुमता तत्र न तु राघवनन्दिनी ॥ २०॥ नागकन्या वरारोहाः पूर्णचन्द्रनिभाननाः। दृष्टा हनुमता तत्र न तु सीता सुमध्यमा ॥२१॥ प्रमथ्य राक्षसेन्द्रेण नागकन्या बलाद्धृताः। दृष्टा हनुमता तत्र न सा जनकनन्दिनी ॥२२॥ सोऽपश्यंस्तां महाबाहुः पश्यंश्चान्या वरस्त्रियः। विषसाद मुहीमान् हनुमान् मारुतात्मजः ॥२३॥ मधिरुह्य ततः समुद्गच्छन्॥१६॥१७॥ प्राकारान्तररथ्याः प्राकारमध्यवर्तिवीथ्यः। वेदिकाश्चैत्यसंश्रयाः चैत्यवृक्षमूलपीठिकाबन्धाः॥१८-२१॥प्रमथ्य ।। भूमीगृहान भूविलगृहान् । चैत्यगृहान बुद्धायतनानि । गृहातिगृहकानपि गृहानतीत्य अनतिदूरे स्वैरविहारार्थ निर्मितगृहान्॥१४॥ उत्पतन उन्नतमारुहन । निपतन kaसतोऽवरोहन । निष्पतन निष्क्रामन् । बिलगृहेष्ववतरन् । उत्पतन पुनस्तेभ्य उद्च्छन् ॥१५-१७ ॥ प्राकारान्तररथ्या:प्राकारान्तरमध्यवर्तिमन्त्रिकुमारादिगृहवीयः। Mवेदिकाचैत्यसंश्रयाः चतुप्पथवर्तिवृक्षाधारभूतवेदिकाः ॥ १८ ॥ १९ ॥ राघवनन्दिनी रामप्रिया ॥ २०॥ २१॥ प्रमथ्य नागकन्या बलाढ्ता इत्यनेन बन्दीकृतान धाम-भूमीगृहान् भूविवरस्थगृहान् । चैत्यगृहान् देवापतनानि ॥ १४ ॥ अपातृप्यन् अपगतावरणानि पुर्नन् ॥ १५ ॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy