________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
वाटी.सं.कां.
वा.रा.भू.1 तर्हि अत्रैव कालविलम्बः क्रियतां तबाह-ध्रुवमिति । कालस्य व्यतिवर्तने अस्मदागमनकालेऽतीते प्रायमुपैष्यन्ति, जाम्बवत्प्रभृतय इति शेषः ॥१४॥
॥ ८॥ सामान्येन निवेदं प्रतिवक्ति-किं वेति । समुद्रलङ्घनरूपं महत् कर्म कृतवन्तं मां ते किं वक्ष्यन्ति किमपि वक्ष्यन्ति । यद्वा मवृत्तान्तं प्रशंसन् जाम्बवान तदुत्साहकोऽङ्गदस्तदुपशृण्वन्तोऽन्ये च मां किंवा जुगुप्सितं वक्ष्यन्ति । " किं पृच्छायां जुगुप्सने " इत्यमरः ॥ ९॥ रामानु०-किं मामिति ।
ध्रुवं प्रायमुपैष्यन्ति कालस्य व्यतिवर्तने ॥ ८॥ किं वा वक्ष्यति वृद्धश्च जाम्बवानङ्गदश्च सः । गतं पारं समुद्रस्य वानराश्च समागताः ॥९॥ अनिर्वेदः श्रियो मूलमनिवेदः परं सुखम् । अनिदो हि सततं सर्वार्थेषु प्रवर्तकः ॥१०॥ करोति सफलं जन्तोः कर्म यत्तत्करोति सः। तस्मादनिर्वेदकृतं यत्नं चेष्टेऽहमुत्तमम् ॥११॥ भूयस्तावद्विचेप्यामि देशान रावणपालितान । आपानशाला विचितास्तथा पुष्पगृहाणि च ॥ १२ ॥ चित्रशालाश्च विचिता भूयः
क्रीडागृहाणि च । निष्कुटान्तररथ्याश्च विमानानि च सर्वशः॥ १३॥ [भूयस्तत्र विचेष्यामि न यत्र विचयः कृतः।] समुदस्य पारं तीरं गतं मां वृद्धी जाम्बवान् किं वक्ष्याति जुगुप्सितं वक्ष्यात जन्मप्रति मन्पराक्रमकथनेन प्रशस्य प्रेषयित्वा जाम्बवान् मां प्रति जुगुप्सितवाक्यो भविष्यति । सोऽङ्गदश्च बिल प्रवेशनोद्योगान्मया विघटितोऽङ्गदश्च जुगुप्सितवाक्यो भविष्यति । समागता वानराच सर्वथा कृतकार्योऽहमेष्यामीति मदुक्त्या जनितविश्वासा वानराश्च जुगुप्सितवाक्या भविष्यन्तीत्यर्थः ॥९॥ चिरं निदे कार्यहानिः स्यादिति मत्वा अनिर्वेदमवलम्बते-अनिदि इति । अनिर्वेद उत्साहः तत्कृतं तत्प्रयुक्तं यत्नम् । चेष्टे, करोमीत्यर्थः। यत्करोति
जन्तुरिति सिद्धम् । जन्तोसम्बन्धि तत्सर्व कर्म सः अनिर्वेद एव सफलं करोतीत्यन्वयः ।। १०॥ ११ ॥ आपानेति । एता विचिताः अथापि पुन । Mविचेप्यामीत्यनुषज्यते ॥ १२॥ निष्कुटाः गृहारामाः, अन्तररथ्याः अवान्तरवीथ्यः॥१३॥
तद्वदस्व नः इत्युक्त इति शेषः । तामदृष्ट्वा किं प्रवक्ष्यामीति सम्बन्धः । न किमपि वक्तुं शक्यमित्यर्थः ॥ ७ ॥ तत्र हेतुमाह-धुषमिति । सीता न दृष्टेति वचनं श्रुत्वा ध्रुवं प्रायोपवेशनेन प्राणांत्यक्ष्यन्तीत्यर्थः ॥ ८॥ हेत्वन्तरमाह-किमिति । समुद्रस्य पारं तीरं गतं मा जाम्बवान किं कुत्सितं वक्ष्यति । सोऽङ्गन्दः कि कुत्सितं वक्ष्यति । समागताः सीतान्वेषणार्थमागताः किं कुत्सितं वक्ष्यन्तीत्यर्थः ॥९॥ एवं क्षणमात्र निर्विद्य पुनरुत्साहमवलम्ब्याह-अनिवेद इत्यादिना । अनिर्वेद: अलम्बुद्धिराहित्यम्, उत्साह इत्यर्थः । अनिर्वेदकृतम् उत्साहप्रयुक्तम् ॥ १०-१२ ॥ निष्कुटा: गृहारामाः । तन्मध्यगाः वीथीश्च ॥ १३ ॥
For Private And Personal