________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyarmandie
नैति तस्मात् म्रियते ममार । यद्वा अथवा नेति वाक्यं पठनीयम् । तदा अपश्यन्निति हेतुगर्भम् । अदर्शनात् मृता वा अथवा दर्शनं नैति । कुत्रचित् गहने प्रदेशे स्थिता वेत्यर्थः ॥२॥सेति । प्रतिदुष्टकर्मणा अतिदुष्टकर्मणा । वीप्सायां प्रतिः । “प्रति प्रतिनिधौ वीप्सालक्षणादौ " इत्यमरः । परे| उत्कृष्टे । आर्यपथे सन्मार्गे ॥ ३ ॥ विरूपाणि न्यूनाधिकानि रूपाणि शरीरावयवाः यातां ताः । विकृताः विकृतवेपाः । विवर्चसो निस्तेजस्काः ।
सा राक्षसानां प्रवरेण जानकी स्वशीलसंरक्षणतत्परा सती । अनेन नूनं प्रतिदुष्टकर्मणा हता भवेदार्यपथे परे स्थिता ॥३॥ विरूपरूपा विकृता विवर्चसो महानना दीर्घविरूपदर्शनाः । समीक्ष्य सा राक्षसराजयोपितो भयाद्विनष्टा जनकेश्वरात्मजा॥४॥ सीतामदृष्ट्वा ह्यनवाप्य पौरुषं विहृत्य कालं सह वानरैश्चिरम् । न मेऽस्ति सुग्रीवसमीपगा गतिः सुतीक्ष्णदण्डो बलवांश्च वानरः ॥५॥ दृष्टमन्तःपुरं सर्व दृष्टा रावणयोपितः । न सीता दृश्यते साध्वी वृथा जातो मम श्रमः॥६॥ किन्नु मां वानराः सर्वे गतं वक्ष्यन्ति सङ्गताः । गत्वा तत्र त्वया वीर किं कृतं तद्दस्व नः। अदृष्ट्वा किं प्रवक्ष्यामि तामहं जनकात्मजाम् ॥ ७॥ महाननाः अतिविशालमुखाः । दीर्घाणि विरूपाणि दर्शनानि चक्षुषि यासां ताः। राक्षसराजयोषितः रावणस्याज्ञाकारिणीः स्त्रियः॥ ४ ॥ सीतामिति । पौरुषं शत्रुविषयपराक्रमम् । चिरं कालं विहृत्य अतिक्रम्येत्यर्थः । एवम्भूतस्य मे सुग्रीवसमीपगा तत्समीपगामिनी गतिः मार्गः नास्ति । सुग्रीवसमीप गतिः ममायोग्येत्यर्थः । तत्र हेतुमाह-सुतीक्ष्णेति । यत इति शेषः ॥५॥६॥ किंन्विति सामान्येन निवेदोक्तिः । विशेपतवाह-गत्वेति । इत्युक्त इति शेपः । वदस्व न इत्युक्तः किं प्रवक्ष्यामि । यद्वा किन्विति पाठः । पूर्ववर्धत्रयमेकं पाक्यम् । किनित्यति पूर्वमादिशेपोक्तिः। मा वानराः वदस्व नः इति वक्ष्यन्ति तदा अदृष्ट्वा किं प्रवक्ष्यामीति योजना ॥ ७॥ ध्रुवं म्रियते ममारेति सम्बन्धः॥२॥ सेति । स्वशीलसंरक्षणं पातिव्रत्यसंरक्षणम् । प्रतिदुष्ट कर्मणा अतिदुष्टकर्मणा । आर्यपथे सन्मार्गे ॥३॥ विरूपदर्शनाः विरूपाणि दर्श नानि च पि दीर्घाश्च विरूपदर्शनाच तास्तथोक्ताः । राक्षसराजयोषितः रावणस्याज्ञाकारिणीः ॥४॥मुग्रीवसमीपगा गतिः, गम्यत इनि गतिर्मार्गः सुग्रीवसमीप ) सम्बन्धी मागों मे नास्ति, सुग्री वसपिं प्रति न गन्तव्यमिति भावः ॥ ५॥३॥ माऽस्तु तत्समीपगमनम्, जाम्बवदादिसमीपगमनमपि दुरन्तमित्याह-किन्वित्यादि।
For Private And Personal