________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शुभ्रा इत्यर्थः ॥ ३३॥ तासामिति । चकारोऽप्यर्थकः । निद्रापरवशानामपिं तासां रूपं प्रसुप्तानां पद्मिनीनां रूपमिव रम्यमासीदित्यर्थः ॥ ३४ ॥ ३५ ॥ निरीक्षमाण इत्यादि । धर्मसाध्वसशङ्कितः धर्मलोपभयाच्छङ्कितः । परदारावरोधस्य परदाररूपान्तःपुरस्य ॥ ३६ ॥ न हीति । मे दृष्टिः कदाचिदपि तासां निद्रावशत्वाच्च मदनेन विमूच्छितम् । पद्मिनीनां प्रसुप्तानां रूपमासीद्यथैव हि ॥ ३४ ॥ एवं सर्वमशेषेण रावणान्तःपुरं कपिः । ददर्श सुमहातेजा न ददर्श च जानकीम् ॥ ३५ ॥ निरीक्षमाणश्च तदा ताः स्त्रियः स महा कपिः । जगाम महतीं चिन्तां धर्मसाध्वसशङ्कितः । परदारावरोधस्य प्रसुप्तस्य निरीक्षणम् ॥ ३६ ॥ इदं खलु ममात्यर्थे धर्मलोपं करिष्यति । नहि मे परदाराणां दृष्टिर्विषयवर्तिनी ॥ ३७ ॥ अयं चात्र मया दृष्टः परदारपरि ग्रहः ॥ ३८ ॥ तस्य प्रादुरभूच्चिन्ता पुनरन्या मनस्विनः । निश्चितैकान्तचित्तस्य कार्यनिश्चयदर्शिनी ॥ ३९ ॥ कामं दृष्टा मया सर्वा विश्वस्ता रावणस्त्रियः । नहि मे मनसः किंचिद्वैकृत्यमुपपद्यते ॥ ४० ॥ मनो हि हेतुः सर्वेषामिन्द्रियाणां प्रवर्तने । शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम् ॥ ४१ ॥
परदाराणां विषयवर्तिनी नहि, परदारसम्बन्धिविषयपरा नहीत्यर्थः । तथाप्ययं परदारपरिग्रहः दृष्टः, इदमसङ्गतमित्यर्थः ॥ ३७ ॥ ३८ ॥ तस्येति निश्चितैकान्तचित्तस्य नियतैकरूपचित्तस्य ॥ ३९ ॥ रामानु० तस्येति । निश्चिते निश्चये एकान्तं नियतं चित्तं यस्य तस्य । यद्वा नियतैकचित्तस्य ॥ ३९ ॥ काममिति । वैकृत्यं विकारः । उपपद्यते उत्पद्यते ॥ ४० ॥ रामानु०-विश्वस्ताः विश्वव्याः ॥ ४० ॥ मन इति । शुभाशुभास्ववस्थासु शुभकरणाशुभकरणेषु विषयेषु लक्षिते सर्वत्र सुता इति शेषः ॥ ३३ ॥ तासामिति । निद्रापरशाच मदनेन मदनकरत्या च । विमूर्च्छितं कान्तम् तासां रूपं पद्मिनीनां रूपं यथा रमणीयं तथैवासीदित्यर्थः ॥ ३४ ॥ ३५ ॥ निरीक्षमाण इति । धर्मसाध्वसशङ्कितः धर्मलोप भयात् शङ्कितः । परदारपरिग्रहः परदारा एव परिग्रहः ॥ ३६-३८ ॥ निश्चितैकान्त चित्तस्य निश्वयनियतचित्तस्य ॥ ३९ ॥ वैकृत्यं विकृतत्वम् ॥ ४०-४२ ॥
ति०-धर्मलोर दर्शयति--परदारेति । परदारावरोधस्य दारशब्दः स्त्रीसामान्यवावी । अवरोशब्दः स्वयुक्तवाची प्रसुप्तस्येत्यनेन प्रपत्वं सूचितम् तत्समये वसनानां वसात् । किच परदारा एवं परिग्रहो भार्या यस्य सः अतिपापी रावणच दृष्टः । नारशदर्शनमपि धर्मलोपकारीति भावः ।। २६-१८ ।।
For Private And Personal