________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मांसैः सह दृष्टा इति वक्ष्यमाणेनान्वयः ॥ १९ ॥ दिव्याः अमृतमथनोद्भूतवारुणीजातीयाः । प्रसन्नाः निष्कल्मषाः । कृतसुराः कृत्रिमसुराः । कृत्रिमसुरा एवाह शर्करेति । शर्करासवाः शर्करया कृताः । माध्वीकाः मधुना कृताः । पुष्पासवाः पुष्पमकरन्दकृताः । फलासवाः फलरसकृताः । तथोक्तमर्णवे'पानकं द्राक्षमाधूकं खार्जूरं तालमैक्षवम् । मधूत्थं शीधुमाध्वीकं मैरेयं नारिकेलजम् ॥ " इति ॥ २० ॥ वासचूर्णैः अधिवासचूर्णैः सह दृष्टाः, हनुमतेति दिव्याः प्रसन्ना विविधाः सुराः कृतसुरा अपि । शर्करा सवमाध्वीक पुष्पासवफलासवाः ॥२०॥ वासचूर्णैश्च विविधै
तैस्तैः पृथक् पृथक् । सन्तता शुशुभे भूमिर्माल्यैश्च बहुसंस्थितैः ॥ २१ ॥ हिरण्मयैश्च विविधैर्भाजनैः स्फाटिकै रपि । जाम्बूनदमयैश्चान्यैः करकैरभिसंवृता ॥ २२ ॥ राजतेषु च कुम्भेषु जाम्बूनदमयेषु च । पानश्रेष्ठं तदा भूरि कपिस्तत्र ददर्श सः || २३ || सोऽपश्यच्छातकुम्भानि शीधोर्मणिमयानि च । राजतानि च पूर्णानि भाजनानि महाकपिः ॥ २४ ॥ क्वचिदर्घावशेषाणि क्वचित् पीतानि सर्वशः । कचिन्नैव प्रपीतानि पानानि स ददर्श ह ॥ २५ ॥
शेषः । बहुप्रकारैर्मासैः सह सुराः वासचूर्णैः सह हनुमता तत्र पानभूमौ दृष्टा इति सम्बन्धः । तैस्तैरित्याद्युत्तरशेषः । तैस्तैमसिविशेषैस्सुराराविशेषैर्वास चूर्णैश्च पृथक्पृथक् सन्ततेति संबन्धः । बहुसंस्थितैः बहुसंस्थानैः ॥२१॥ हिरण्मयैरिति । अत्रापि संततेति पूर्वेणान्वयः । हिरण्मयैः रजतमयैः । “कृताकृतं डेम रूप्यं हिरण्यमभिधीयते" इति वचनात् । तैस्तैः पृथक्पृथक् सन्तता बहुसंस्थितैर्माल्यैर्हिरण्मयैः स्फाटिकैरपि भाजनैस्सन्तता जाम्बूनदमयैरन्यैः करके श्वाभिसंवृता भूमिः शुशुभ इति सम्बन्धः ॥ २२ ॥ २३ ॥ शीघोः मद्यस्य ॥ २४ ॥ पानानि पानपात्राणि ॥ २५ ॥
दिव्याः सुराः समुद्रमथनोत्पन्नाः सुराः । कृतसुराः कृत्रिमतुराः । ता एवाह शर्करासवेत्यादिना । शर्करासवाः शर्करया कृताः, माध्वीकाः मधुना कृताः । माझीका इति पाठे द्राक्षाफलविकारा वा । "मृद्वीका गोस्तनी द्राक्षा " इत्यमरः । पुष्पासवाः पुष्पमकरन्दकृताः । फलासवाः फलरसेः कृताः । वासचूर्णैः अधिवासचूर्णैः सुगन्धिचूर्णैरित्यर्थः । सह उक्तसुरा दृष्टाः, कपिनेति शेषः । सन्ततेत्यादिसार्धश्लोकमेकं वाक्यम् । हिरण्मयैः रजतमयैः माल्यादिभिः संवृता भूमिः शुशुभ इति सम्बन्धः ॥ २०-२३ ॥ स इति । शीधोः मद्यस्य ॥ २४ ॥ अर्धावशेषाणि अर्धावशिष्टपानानि । पीतानि पीतासवानि । नैवप्रपीतानि पूर्णासवान्यव ।
For Private And Personal