SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir वर्णनशीलेन, रावणविषयरूपप्रशंसाशीलेन वा । युक्तगीतार्थभाषिणा युक्तम् उपपन्नं गीतार्थ भाषितुं शीलमस्यति युक्तगीतार्थभाषी तेन । देशकालाभियुक्तेन देशकालाभिज्ञेनेत्यर्थः । अङ्गनानां सहस्रेण रताभिरतसंसुप्तमित्यन्वयः । रतशब्देन बाह्यसुरतमुच्यते । अभिरतशब्देन करणबन्धा दिकमुच्यते । रताभिरतश्चासौ संसुप्तश्च तथा तम् । वातानुलिप्तादिवत्समासः । क्रीडाखेदेन सुप्तमित्यर्थः । रावणमिति शेषः ॥ ६-८ ॥ स इति । रताभिरतसंसुप्तं ददर्श हरियूथपः ॥७॥ तासां मध्ये महाबाहुः शुशुभे राक्षसेश्वरः । गोष्ठे महति मुख्यानां गवां मध्ये यथा वृषः॥८॥ स राक्षसेन्द्रः शुशुभे ताभिः परिवृतः स्वयम् । करेणुभिर्यथाऽरण्ये परिकीर्णो महाद्विपः॥९॥ सर्वकामैरुपेतां च पानभूमि महात्मनः । ददर्श हरिशार्दूलस्तस्य रक्ष-पतेर्गृहे ॥१०॥ मृगाणां महिषाणां च वराहाणां च भागशः। तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः॥ ११॥ रौक्मेषु च विशालेषु भाजनेष्वर्ध भक्षितान । ददर्श हरिशार्दूलो मयूरान कुक्कुटांस्तथा ॥ १२॥ वराहवार्धाणसकान दधिसौवर्चलायुतान् । शल्यान् मृगमयूरांश्च हनुमानन्ववैक्षत॥ १३॥ परिकीर्णः परिवृतः॥९॥ सर्वकामैरिति । पानभूमेः पुनर्दर्शनोक्तिस्तत्रत्यपदार्थकथनाय ॥१० ॥ मृगाणामिति । भागशः पिण्डशः ॥११॥ नारोक्मेष्विति । मयूरादिशब्दाःमयूरादिविकारमांसपराः ॥ १२॥ रामानु०-मयूरान् कुक्कुटानिति स्वरूपेण निर्देशात्तत्तदाकारविशिष्टतया ते पक्का इत्यवगम्यते ॥ १२ ॥ वराहेति । वाणिसाः छागविशेषाः। “त्रिपिबन्त्विन्द्रियक्षीणं यूपस्याग्रचरं तथा । रक्तवर्ण च राजेन्द्र च्छागं वार्धाणसं विदुः॥" इति स्मृतेः। पक्षि विशेष इत्यन्ये । खड्गमृग इत्यपरे । “ वार्धाणसः खङ्गमृगः” इति हलायुधः । दधिसौवर्चलायुतान् दधिसौवर्चलाभ्यां संस्कृतानित्यर्थः। सौवर्चलं युक्तवाक्याभिधायिना अवसरोचितभाषिणा ॥ ४-६ ॥रताभिरतसंसुप्त रताभिरतश्चासौ संसुप्तश्च तम्, रतिश्रान्त्या सुप्तमित्यर्थः ॥ ७॥८॥ परिकीर्णः परिवेष्टितः M९ ॥ सस्त्रीकरावणगृहे पुनस्सम्यगन्विष्य पुनर्वहिः पानभूमिमागत्य विचिनोति-सर्वकामेरिति । पूर्व नृत्यादियुक्ततत्स्थस्त्रीमात्रदर्शनम्, इदानीं तस्यास्सर्व कामोपेतत्वदर्शनम् ॥ १०॥ तदेव प्रपञ्चयति-मृगाणामिति ॥ ११ ॥ १२॥ वराहः सूकर, वार्धाणसः पक्षिविशेषः "कृष्णप्रीवो रक्तशिराः श्वेतपक्षो विहङ्गमः। सवै वार्धाणसः पक्षी" इति विष्णुधर्मोक्ता छागविशेषो वा ॥ "त्रिपिवं त्विन्द्रियक्षीणं श्वेतं वृद्धमजापतिम् । वाणिसं च तं प्राहुर्याज्ञिकाः श्राद्धकर्मणि ॥" For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy