________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
बा.रा.भ.
॥४०॥
I अवधूयेत्यादि । तां बुद्धिं मन्दोदर्या सीताबुद्धिम् । अवस्थितो बभूव स्वस्थचित्तो बभूव ॥१॥न रामेणेत्यादि । त्रिदशेष्वपीत्यनन्तरम् अन्येय
टी.सुं.का. मित्यर्धम् । पानभूमौ ततोऽन्यत्रेत्यर्थः ॥२॥३॥ रामानु०-सीतां प्रति महाकपिरित्यतः परम् अन्येयमित्पर्धं प्रमादालिखितम् । विद्यते त्रिदशेष्वपीत्यतः परमस्य । स्थानम् । अत्र पुनरपि पानभूमौ स्त्रीणां रावणस्य च दर्शनाभिधानात् क्षणमन्यत्रान्विष्य विशेषेण मार्गितुं पुनः पानभूम्यादिकं दृष्टवानित्यवगम्यते ॥ २ ॥ ३ ॥ क्रीडितेनेत्यादि अपराः
अवधूय च र्ता बुद्धिं बभूवावस्थितस्तदा । जगाम चापरां चिन्तां सीतां प्रति महाकपिः ॥ ॥ न रामेण वियुक्ता सा स्वप्नुमर्हति भामिनी। न भोक्तं नाप्यलङ्कर्तुं न पानमुपसेवितुम् ॥२॥ नान्यं नरमुपस्थातुं सुराणा मपि चेश्वरम् । नहि रामसमः कश्चिद्विद्यते त्रिदशेष्वपि । अन्येयमिति निश्चित्य पानभूमौ चचार सः॥३॥ क्रीडितेनापराः कान्ता गीतेन च तथाऽपराः । नृत्तेन चापराः क्लान्ताः पानविप्रहतास्तथा । मुरजेषु मृदङ्गेषु पीठिकासु च संस्थिताः॥४॥ तथाऽऽस्तरणमुख्येषु संविष्टाश्चापराः स्त्रियः॥५॥ अङ्गनानां सहस्रेण भूषितेन विभूषणैः । रूपसँल्लापशीलेन युक्तगीतार्थभाषिणा । देशकालाभियुक्तेन युक्तवाक्याभिधायिना ॥६॥ स्त्रिय इत्यन्तमेकं वाक्यम् । ददशेत्यनुषज्यते । क्रीडितेन क्रीडया । भावे निष्ठा । विप्रहताः छान्ता इत्यर्थः । संस्थिताः उपधानीकृत्य शयिताः ।।
संविष्टाः सुप्ताः ॥४॥५॥ तत्र सीताया अदर्शनात् पुनरपि रावणस्थानमागत्य ददर्शेत्याह-अङ्गनानामिति । रूपसँल्लापशीलेन स्वसौन्दर्य NI अवधूयेति । तां बुद्धिं तस्यां तबुद्धिम् । अवस्थितः स्वस्थचित्तः । सीता प्रति तद्विषयामन्यचिन्ता पूर्वचिन्ताविघटिता जगाम ॥ १॥ अविचारान्ममताहशी। बुद्धिर्जातत्याह-न रामेणेत्यादिश्लोकद्वयेन । अन्यं नरम् उपस्थातुमङ्गीकर्तु नाईति नाध्यवस्यति । तत्र हेतुः नहि रामेति । यद्येवमतोऽन्येयमनुभूतेति निश्चित्य तत्र गृहे पानभूमो पानशालायां चचार, पुनस्सम्यगन्वेषणायेति शेषः ॥ २ ॥ ३॥ पानभूमावित्यारभ्य ददर्श हरिपूयपः इत्यन्तमेकं वाक्यम् । रताभिरतसमुप्त मित्यत्र विशेष्यत्वेन रावणमित्यध्याहतव्यम् । तथा च हरियूथपः पानभूमि च उक्तविशेषणविशिष्टाः स्त्रियश्च अङ्गनासहस्रेण सह रावणं च ददर्शति सम्बन्धः । क्रीडादिभिरुपलक्षिताः, पानविप्रहताः पानेन मनाः, संविष्टाः सुप्ताः । रूपसँल्लापशीलेन स्वस्वसौन्दर्यवर्णनस्वभावेनेत्यर्थः। युक्तगीतार्थभाषिणा
Hal॥४०॥
। युक्तमुपपन्नं यथा तथा गीतस्य भरतशास्त्रस्यार्थभाषितुं शीलमस्येति तथा तेन, भरतशास्त्रार्थव्याख्यानचतुरेणेत्यर्थः । देशकालाभियुक्तेन देशकालाभिज्ञेनेत्यर्थः।
For Private And Personal