SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir गम्यते ॥ ४६--४८ ॥ आतोद्यानि "ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् । वंशादिकं तु सुषिरं कांस्यतालादिकं घनम् । चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम्॥" इत्यमरः ॥ ४९-५१ ॥ किमिव गौरीमित्यत्राह - कनकवर्णाङ्गीमिति । इष्टाम्, रावणस्येति शेषः ॥ ५२ ॥ ५३ ॥ हर्षेणेत्यर्धम् आतोद्यानि विचित्राणि परिष्वज्य वरस्त्रियः । निपीड्य च कुचैः सुप्ताः कामिन्यः कामुकानिव ॥ ४९ ॥ तासा विन्यस्ते शयानां शयने शुभे । ददर्श रूपसम्पन्नामपरां स कपिः स्त्रियम् ॥५०॥ मुक्तामणिसमायुक्तैर्भूषणैः सुविभूषिताम् । विभूषयन्तीमिव तत् स्वश्रिया भवनोत्तमम् ॥ ५१ ॥ गौरीं कनकवर्णाङ्गीमिष्टामन्तःपुरेश्वरीम् । कपिर्मन्दोदरीं तत्र शयानां चारुरूपिणीम् ॥ ५२ ॥ स तां दृष्ट्वा महाबाहुर्भूषितां मारुतात्मजः । तर्कयामास सीति रूपयौवनसम्पदा ॥ ५३ ॥ हर्षेण महता युक्तो ननन्द हरियूथपः ॥ ५४ ॥ आस्फोटयामास चुचुम्ब पुच्छं ननन्द चिक्रीड जगौ जगाम । स्तम्भानरोहन्निपपात भूमौ निदर्शयन् स्वां प्रकृतिं कपीनाम् ॥ ५५ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे दशमः सर्गः ॥ १० ॥ हर्षेण युक्तः ननन्द उत्तरोत्तरमानन्दमवापेत्यर्थः ॥ ५४ ॥ रामानु० - हर्षेण रोमाश्चेन ॥ ५४ ॥ तदेवोपपादयति- आस्फोटयामासेति । चिक्रीड, ननर्तेति यावत् । स्वां प्रकृतिं स्वासाधारणं चापल्यम् । अस्मिन्सर्गे सार्वचतुष्पञ्चाशच्छ्लोकाः ॥ ५५ ॥ इति श्रीसुन्दरकाण्डव्याख्याने दशमः सर्गः ॥ १० ॥ भातीति सम्बन्धः ॥४६-४८॥ आतोद्यानि ततानद्धसुषिरघननामकानि चतुर्विधवाद्यानि । “ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् । वंशादिकं तु सुषिरं कांस्यतालादिकं घनम् । चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम् ॥" इत्यमरः ॥ ४९ ॥ अथ प्रधानमहिषीदर्शनम् -तासामिति । एकान्तविन्यस्ते तासां शयनात्पृथग्विन्यस्ते । तां वक्ष्यमाणगुणाम् ॥ ५० ॥ ५१ ॥ गौरीं हरिद्राभाम् । किमिव गौरीमित्यत आह- कनकवर्णाभामिति । इष्टां रावणस्यातिप्रियाम् । अन्तःपुरस्खीणामीश्वरीं कपिर्मन्दोदरीं ददर्शेत्यन्वयः ॥ ५२ ॥ तर्कयामास सीतेति रूपयौवनसम्पदा । औचित्यमनालोच्य रूपयौवनसम्पन्मात्रदर्शनेन सीतेति विचारितवानित्यर्थः ॥ ५३ ॥ हर्षो मुखविकासादिः, आनन्दो मानसः ॥ ५४ ॥ सीतेति व्यामोहात्कापेयं प्रदर्शितवानित्याह-आस्फोटयामासेति । जग हर्षात् मन्दगानं कृतवानित्यर्थः । आस्फोटपुच्छचुम्वनादिर्जातिधर्मः । जगाम स्तम्भानित्यनुकर्षः । सर्वा अप्येताश्चेष्टाः उपांश्विति बोध्यम् । एवं चेष्टायां हेतुः स्वां कपीनां प्रकृतिं निदर्शयन् इति ॥ १५ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां दशमः सर्गः ॥ १० ॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy