________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
टी.सु.का स०१०
विपश्चीमिति । विपञ्ची सप्ततन्त्री। पटतन्त्री वीणा ॥४१॥४२॥ भुजेति । पणवेन मर्दलेन ॥४३॥ डिण्डिममिति । यथा पूर्वा तथैवासक्तडिण्डिमा अन्या तं डिण्डिमं परिगृह्य परिष्वज्य प्रसुप्ता । कथमिव ? तरुणं वत्समुपगुह्येव । डिण्डिमः पणवभेदः। यद्वा अन्या भामिनी डिण्डिमं परिगृह्यावलम्ब्य । तथैव आसक्तडिण्डिमा आलिङ्गितान्यडिण्डिमा तरुणं रमणमुपगुह्य वत्सं पुत्रं परिगृह्येव प्रसुप्ता । यद्वा डिण्डिमं परिगृह्य वादनार्थ परिगृह्य तथैव । विपञ्ची परिगृह्यान्या नियता नृत्तशालिनी । निद्रावशमनुप्राप्ता सहकान्तेव भामिनी ॥४१॥ अन्या कनकसङ्काशैर्मृदुपीनैर्मनोरमैः। मृदङ्गं परिपीड्याङ्गैः प्रसुप्ता मत्तलोचना ॥ ४२ ॥ भुजपार्थान्तरस्थेन कक्ष गेन कृशोदरी । पणवेन सहानिन्द्या सुप्ता मदकृतश्रमा ॥४३॥ डिण्डिमं परिगृह्यान्या तथैवासक्तडिण्डिमा । प्रसुप्ता तरुणं वत्समुपगुह्येव भामिनी ॥४४॥ काचिदाडम्बरं नारी भुजसंयोगपीडितम् । कृत्वा कमलपत्राक्षी प्रसुप्ता मदमोहिता ॥ ४५ ॥ कलशीमपविध्यान्या प्रसुप्ता भाति भामिनी । वसन्ते पुष्पशबला मालेव परि मार्जिता ॥ ४६॥पाणिभ्यां च कुचौ काचित् सुवर्णकलशोपमौ । उपगुह्यावला सुप्ता निद्राबलपराजिता ॥४७॥
अन्या कमलपत्राक्षी पूर्णेन्दुसदृशानना । अन्यामालिङ्गय सुश्रोणी प्रसुप्ता मदविह्वला ॥४८॥ वादनकाल एव आसक्तडिण्डिमा अन्या तरुणं वत्समुपगुह्येव प्रसुप्ता ॥४४॥ काचिदिति । आडम्बरं तूर्यभेदम् । भुजसंभोगपीडितं भुजपरिणाहपीडि तम् । भुजपरिश्लेषपीडितं वा ॥ ४५ ॥ रामानु०-आडम्बरस्यभेदः । “आडम्बरस्समारम्भे गजगजितर्ययोः" इति विश्वः ॥ ४५ ॥ कलशीमिति । अपविध्य पर्यस्य अनेन सलिलसम्बन्धः सूच्यते । परिमार्जिता सलिललवसंमार्जिता । अपविद्धकलशनिगलितगन्धोदकसिक्ता काचित् वसन्ते म्लानिपरिहाराय सलिललव समुक्षिता मालेव बभावित्यर्थः। पुष्पशबलेत्यनेन कलशस्थजलस्य कुङ्कुमादिरससिक्तत्वमुच्यते, सर्वाभरणभूषितत्वं वा। इयं च रावणस्य करकधारिणीति विपश्ची वीणाभेदम् ॥४१॥ ४२ ॥ मदकृतश्रमा मदवती वादनेन कृतश्रमा च ॥४३॥ परिगृह्य अवलम्ब्य । तथैवासक्तडिण्डिमा आलिङ्गितान्यडिण्डिमा । तरुणं रमणं वत्सं पुत्रं च परिगृह्य प्रसुप्ता ॥ ४४ ॥ आडम्बरः तूर्यभेदः । भुजसंयोगः भुजसंश्लेषः ॥ ४५ ॥ कलशीम् सलिलसम्भृतामित्यर्थः । अपविध्य पर्यस्य परिमार्जिता विपर्यस्तस्वकीयकलशोदकाीकृतशरीरा नारी वसन्ते म्लानि परिहाराय परिमार्जिता जलसिक्ता अत एव पुष्पशवला, शवलपुष्पेत्यर्थः । मालेव
॥३९॥
For Private And Personal