________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
लालिता इत्यर्थः । वराभरणधारिण्य इति द्वितीयार्थे प्रथमा । निषण्णाः शयानाः । ददृश इत्यात्मनेपदमार्पम् ॥ ३२ ॥ वजेति । श्रवणान्तेष्वङ्गद दर्शनं बाहुनुपधाय शयनात् ॥ ३३-३५ ॥ अङ्गहारः नृत्तविशेषादङ्गविक्षेपविशेषः । तथोक्तं भरतशास्त्रे - " अङ्गानां योग्यदेशेषु हरणेन यथोचितम् । अङ्गनिर्वर्तनीयत्वादङ्गहारस्तथोच्यते ॥ " इत्यादि । कोमलैः सुकुमारैः । नृत्तशालिनी सुषुप्त्यवस्थायामपि वासनाबलेन नृत्तसन्निवेशविशिष्टा स्थिते । वज्रवैडूर्यगर्भाणि श्रवणान्तेषु योषिताम् । ददर्श तापनीयानि कुण्डलान्यङ्गदानि च ॥ ३३ ॥ तासां चन्द्रोपमैर्वत्रैः शुभैर्ललितकुण्डलैः । विरराज विमानं तन्नभस्तारागणैरिव ॥ ३४ ॥ मव्यायामखिन्नास्ता राक्षसेन्द्रस्य योषितः । तेषु तेष्ववकाशेषु प्रसुप्तास्तनुमध्यमाः ॥ ३५ ॥ अङ्गहारैस्तथैवान्या कोमलैर्नृत्तशालिनी । विन्यस्तशुभसर्वाङ्गी प्रसुप्ता वरवर्णिनी ॥ ३६ ॥ काचिद्वीणां परिष्वज्य प्रसुप्ता संप्रकाशते। महानदीप्रकीर्णेव नलिनी पोतमाश्रिता ॥ ३७ ॥ अन्या कक्षगतेनैव मड्डुकेनासितेक्षणा । प्रसुप्ता भामिनी भाति बालपुत्रेव वत्सला ॥ ३८ ॥ पटहं चारु सर्वाङ्गी पीड्य शेते शुभस्तनी । चिरस्य रमणं लब्ध्वा परिष्वज्येव भामिनी ॥ ३९ ॥ काचिद्वंशं परिष्वज्य सुप्ता कमललोचना । रहः प्रियतमं गृह्य सकामेव च कामिनी ॥ ४० ॥
त्युच्यते ॥ ३६ ॥ काचिद्वीणामिति । महानदीप्रकीर्णा महानदीप्रसृता । नलिनी समूलनालदुलं पद्मजालकम् । पोतं यानपात्रम् । वीणां परिष्वज्य प्रसुप्ता काचित् नद्यां लवमाना यदृच्छया पोतसंयुक्ता नलिनीव प्रकाशत इत्यर्थः॥ ३७ ॥ मड्डुकेन वाद्यविशेषेण ॥ ३८||३९|| काचिद्वंशमिति । वंशं वेणुम् ॥४०॥ राक्षसेन्द्रस्य भुजाङ्गङ्गाः राक्षसेन्द्रस्य भुजावडूव गच्छन्तीति तथा वल्लभा इति यावत् । धारिण्यः धारिणीः । निषण्णाः शयिताः ॥३२-३४॥ मदेति । मदष्यायामः मदाधिक्यम् ॥ ३५ ॥ अङ्गहारैरिति । अङ्गहारैः अङ्गविक्षेपैः । नृत्तशालिनीति विशेषणात्सुपुष्यवस्थायामपि वासनावलेन नृत्तसन्निवेशविशिष्टा स्थितेति सूच यति ।। ३६ ।। महानदी प्रकीर्णेव महानद्यां प्रवमाना स्त्री नलिनीपोतं नलिनी समूलनालदलं पद्मजालकं पोतं यदृच्छयाऽऽगतं प्रवमाश्रितवतीय वीणां परिष्वज्य प्रकाशत इति सम्बन्धः ॥ ३७ ॥ मड्डुको वाद्यभेदः ॥ ३८ ॥ पीढच आलिङ्गचेत्यर्थः ॥ ३९ ॥ ४० ॥
For Private And Personal