________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsun Gyarmandir
www.kobatith.org
G/
स..
चूतेत्यादि । निश्वासस्य चूतादिसुरभित्वं तदधिवासितरसावल्यादिमधुसेवनात् । मृष्टान्नरससंयुक्तः षड्रसपदार्थगन्धयुक्तः । पानगन्धपुरस्सरः पीयत इति । टी.मुं.का. पानं मधु तद्गन्धयुक्तः ॥२३॥२४॥ मुक्तामणीति । अपवृत्तेन स्थानात् किञ्चिच्चलितेन । अपविद्धन पर्यस्तेन । क्षोमेण उत्तरीयरूपेण । विद्युद्गणेरिव । विद्युत्समूहेरिव । रावणं तस्य पत्नीश्च ददर्शेत्यन्वयः ॥ २५-२९ ॥ रामानु०-विराजता वक्षसेत्युपलक्षणे तृतीया । वक्षसा विराजितमिति वा पाठः ॥२६॥
चूतपुन्नागसुरभिर्वकुलोत्तमसंयुतः। मृष्टानरससंयुक्तः पानगन्धपुरस्सरः॥ २३ ॥ तस्य राक्षससिंहस्य निश्चक्राम महामुखात् । शयानस्य विनिःश्वासः पूरयन्निव तद्गृहम् ॥२४॥ मुक्तामणिविचित्रेण काञ्चनेन विराजितम् । मुकुटेनापवृत्तेन कुण्डलोज्ज्वलिताननम् ॥ २५॥ रक्तचन्दनदिग्धेन तथा हारेण शोभिना । पीनायतविशालेन वक्षसाऽभिविराजितम् ॥ २६ ॥ पाण्डरेणापविद्धन क्षौमेण क्षतजेक्षणम् । महाhण सुसंवीतं पीतेनोत्तमवाससा ॥२७॥ माषराशिप्रतीकाशं निःश्वसन्तं भुजङ्गवत् । गाने महति तोयान्ते प्रसुप्तमिव कुञ्जरम् ॥ २८ ॥ चतुर्भिः काञ्चनैर्दीपैर्दीप्यमानचतुर्दिशम् । प्रकाशीकृतसङ्गं मेघं विद्युद्गणैरिव ॥ २९ ॥ पादमूलगताश्चापि ददर्श सुमहात्मनः । पत्नीः स प्रियभार्यस्य तस्य रक्ष-पतेहे ॥ ३० ॥ शशिप्रकाशवदनाश्चारुकुण्डलभूषिताः। अम्लानमाल्याभरणा ददर्श हरियूथपः ॥ ३१ ॥ नृत्तवादित्रकुशला राक्षसेन्द्रभुजाङ्कगाः । वराभरणधारिण्यो निषण्णा ददृशे हरिः ॥ ३२॥ पादेति । रक्षा पतBह इति परशेषः ॥३०॥३१॥ नृत्तेति । राक्षसेन्द्रस्य भुजम् अहंगच्छन्तीति राक्षसेन्द्रभुजाकगाः । उत्सङ्गोपवेशनालिङ्गनाभ्यां मेकमुखत्वं च रावणस्य कामरूपित्वात्सङ्गच्छते ॥ २२ ॥ चूतेति । निश्वासस्य चूतादिसुरभित्वं तदधिवासितवस्तुसेवनादिद्वारा। मृष्टान्नरससंयुक्ता पडसपदार्थ गन्धोपेतः । पानगन्धपुरस्तरः पीयत इति पानं मधु तद्गन्धयुक्तः ॥ २५ ॥ २४ ॥ मुक्तेति । अपवृत्तेन स्वस्थानात्किविचलितेन उपलक्षितम् ॥ ५५ ॥ रक्तति ॥८॥ एतादृशवक्षसा उपलक्षितम् । अपषिद्धेन पर्पस्तेन क्षोमेण उत्तरीयतया घृतेनोपलक्षितम् ॥ २६-२८॥ चतुभिरिति । विद्यखतेरिति पाठे लिङ्गव्यत्यय आर्षः विद्युद्गणैरिति वा पाठः । उक्तविशेषणविशिष्टं रावणं तस्य पादमूलगताः पत्नीश्च ददर्शति सम्बन्धः । रक्षापतेर्सद इति परशेषः ॥ २९-३१ ॥ नृत्तेति ।
For Private And Personal