________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
अधिरुह्य वेदिकान्तरं सोपानपर्वमध्यम् ॥१३॥ रामानु०-अथेति । अथ अपसर्पणानन्तरम् आरोहणमासाद्य वेदिकान्तरमाश्रितः सोपानमार्गेणान्यवेदिकामारूट इत्यर्थः ॥१३॥ यस्य गन्धेनान्ये हस्तिनो भीता भवन्ति स गन्धहस्ती । प्रस्रवणं निर्झरम् ॥३४॥ काञ्चनाङ्गदेत्यादि । विक्षिप्तौ प्रसारितौ । विष्णुचक्रपरिक्षतौ विष्णुः ।
शुशुभे राक्षसेन्द्रस्य स्वपतः शयनोत्तमम् । गन्धहस्तिनि संविष्टे यथा प्रस्रवणं महत् ॥ १४॥ काञ्चनाङ्गदनद्धौ च ददर्श स महात्मनः । विक्षिप्तौ राक्षसेन्द्रस्य भुजाविन्द्रध्वजोपमौ ॥ १५॥ ऐरावतविषाणाग्रेरापीडनकृतव्रणो । वजोल्लिखितपीनांसौ विष्णुचक्रपरिक्षतौ ॥ १६॥ पीनी समसुजातांसौ सङ्गतौ बलसंयुतौ । सुलक्षणनखाडष्टौ स्वङ्कलीतललक्षितौ ॥ १७॥ संहतौ परिघाकारौ वृत्तौ करिकरोपमौ । विक्षिप्तौ शयने शुभ्र पञ्चशीर्षाविवोरगौ ॥ १८॥ शशक्षतजकल्पेन सुशीतेन सुगन्धिना। चन्दनेन परायेन स्वनुलिप्तौ स्वलंकृतौ ॥ १९॥ उत्तमस्त्री विमृदितौ गन्धोत्तमनिषेवितौ । यक्षपन्नगगन्धर्वदेवदानवराविणौ ॥२०॥ ददर्श स कपिस्तस्य बाहू शयन संस्थितौ । मन्दरस्यान्तरे सुप्तौ महाही रूपिताविव ॥ २१॥ ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः ।
शुशुभेऽचलसङ्काशः शृङ्गाभ्यामिव मन्दरः ॥२२॥ उपेन्द्रः । सङ्गतौ देहानुरूपौ । संहतौ दृढसन्धिबन्धौ। विक्षिप्तौ शयने निहितौ । पञ्चाङ्गुलिमत्तया पञ्चशीपावित्युक्तम् । एतदन्तस्य ददशेत्यनेनान्वयः | अत्र द्विभुजत्वैकमुखत्वोक्तिःस्त्रीणां कामनीयत्वाय॥१५-१८॥ शशक्षतजेत्यादि । यक्षादीन रावयितुं शीलमनयोरस्तीति तथा । ददर्शति पुनरभिधानं विशेषणान्तरविवक्षया॥१९-२१ ॥ रामानु०-शशक्षतजकल्पेन शशरुधिरसदृशेन ॥ १९ ॥ ताभ्यामिति । परिपूर्णाभ्याम् दीर्घवृत्ताभ्यामित्यर्थः॥२२॥ गन्धहस्तिनि यस्य गन्धेन अन्ये गजा विभ्यति स गन्धहस्ती ॥ १४ ॥ काञ्चनेति । विक्षिप्तो दीधौ ॥ १५॥ बजोल्लिखितपीनासौ बजेण उल्लिखितौ क्षनौ , पीनांसो ययोस्तो ॥१६॥ पीनाविति । समौ परस्परसदृशौ । सङ्गनी दृढसन्धिबन्धौ । संहताविति पाठेऽप्ययमेवार्थः। विक्षिप्तो प्रसारितो। एतादृशो वाहू ददशेति पूर्वेण सम्बन्धः । ददर्श स कपिरित्यत्र ददर्शति क्रियापदावृत्तिर्विशेषणबाहुल्यात् ॥ १७-२१॥ ताभ्यामिति । भुजाभ्यामिति द्विभुजत्वं, महामुखादिति वक्ष्यमाण
१५४
For Private And Personal