SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥३७॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir आविकाजिनम् ऊर्णायुचर्म तेन पर्यङ्कस्योपरिफलका संघीयते । वरमाल्यानाम् अशोकाविरिक्तपुष्पाणाम् ॥४-६॥ रामानु०त्रैव देशे परमासनं च ददर्शे त्याह-जातरूपपरिक्षिप्तमित्यादिना श्लोकत्रयेण परमासनं पर्यङ्गम् अस्माच्लोकात्मा तस्य चैकतमे देश इति लोकः। एतस्मादनन्तरं केचित्कोशेष ले व हनमादादिखितः । वरमास्थानां वालव्यजनहस्ताभिर्वीज्यमानं समन्ततः । गन्धैश्च विविधैर्जुष्टं वरधूपेन धूपितम् ॥ ५ ॥ परमास्तरणास्तीर्ण माविकाजिनसंवृतम् । दामभिर्वरमाल्यानां समन्तादुपशोभितम् ॥ ६ ॥ तस्मिन जीमूतसङ्काशं प्रदीप्तोत्तमकुण्डलम् । लोहिताक्षं महाबाहुं महारजतवाससम् ॥ ७ ॥ लोहितेनानुलिप्ताङ्गं चन्दनेन सुगन्धिना । सन्ध्यारक्तमिवाकाशे तोयदं सतडिद्गणम् ॥ ८ ॥ वृतमाभरणैर्दिव्यैः सुरूपं कामरूपिणम् । सवृक्षवनगुल्माढ्यं प्रसुप्तमिव मन्दरम् ॥९॥ क्रीडत्वरतं रात्रौ वराभरणभूषितम् । प्रियं राक्षसकन्यानां राक्षसानां सुखावहम् । पीत्वाप्युपरतं चापि ददर्श स महाकपिः ॥ १० ॥ भास्वरे शयने वीरं प्रसुप्तं राक्षसाधिपम् ॥ ११ ॥ निःश्वसन्तं यथा नागं रावणं वानरर्षभः । आसाद्य परमोदिनः सोऽपासर्पत् सुभीतवत् ॥ १२ ॥ अथारोहणमासाद्य वेदिकान्तरमाश्रितः । सुप्तं राक्षसशार्दूलं प्रेक्षते स्म महाकपिः ॥ १३ ॥ वरपुष्पाणाम् ॥ ४६ ॥ तस्मिन्नित्यादि । महारजतवाससं हेमचित्रितवाससम् । महारजतं हेम। महारजनवाससमिति पाठे कुसुम्भरागरञ्जितवस्त्रमित्यर्थः ॥ ७ ॥ ८ ॥ सवृक्षवनगुल्मादयं सवृक्षैर्वनैः गुल्मैश्वान्यम् । प्रसुप्तं निश्वलमित्यर्थः ॥१-१२ ॥ अथ अपसर्पणानन्तरम्। आरोहणं सोपानम् । आसाद्य त्रयेण । जातरूपपरिक्षिप्तं स्वर्णनिर्मितं गन्धैर्जुष्टं दिव्यगन्धेरधिवासितम् । आधिकाजिनसंवृत्तम् आविकाजिनम् ऊर्णायुचर्म । वरमाल्यानां वरपुष्पाणाम् ॥४-६॥ तस्मिन्निति । महारजतवाससं हेमविचित्रवसनम् ॥ ७ ॥ ८ ॥ सवृक्षवनगुल्मादयं पुष्पसहित वृक्षवरगुल्माचं मन्दरमिव स्थितम्। बाहवो यस्य वृक्षाः नासादयो गुल्माः ॥ ९-११ ॥ यथा नागं गजमिव निश्वसन्तं रावणम् आसाद्य प्राप्य परमोद्विग्नः अयं पापी देवीं हृतवानित्येतत्समीपेऽवस्थानमनुचितमिति खिन्नचित्तोऽपा सर्पत्सुभीतवत् सुभीतो यथा भयहेतो पिशाचादिसंमुखे स्थातुमशक्तोऽपसर्पति तद्वत् ॥ १२॥ अथेति । आरोहणं सोपानम् । वेदिकान्तरं सोपानपर्वमध्यम् ॥१३॥ For Private And Personal डी.सुं.कां.. स० [१० ॥३७॥
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy