SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir सुग्रीवस्य सुजातं हीति साधुबुद्धेः सन्मन्त्रिबुद्धेः अस्य हनुमतः बुद्धिर्बभूवेत्यर्थः । यद्वा इमा राक्षसराजभार्याः यथा रावणेऽनुरक्ता ईदृशी राघवधम पत्नी यदि एवमनुरक्ता चेत् अस्य सुजातमिति साधुबुद्धेरपि बुद्धिर्बभूव । ऐश्वर्यातिशयदर्शनविस्मयादिति भावः । अत एव वक्ष्यति-अहो वीर्यमित्या दिना । एवं हठादुक्ताऽनुशयितवानित्याह-पुनश्चेति । हि यस्मात् सीता गुणतः पातिव्रत्येन विशिष्टा सर्वोत्कृष्ट अतः आर्तरूपः किं मया व्याहत मित्यनुतप्तः सन् । अस्यामनार्यकर्म कृतवानित्यचिन्तयत् । अस्मिन्स विसततिश्लोकाः ॥ ७३ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे तत्र दिव्योपमं मुख्यं स्फाटिकं रत्नभूषितम् । अवेक्षमाणो हनुमान ददर्श शयनासनम् ॥१॥ दान्तकाञ्चनचित्राङ्गैडूर्येश्च वरासनैः । महार्हास्तरणोपेतैरुपपन्नं महाधनैः॥२॥ तस्य चैकतमे देशे सोऽध्यमालाविभूषितम् । ददर्श पाण्डुरच्छन्नं ताराधिपतिसन्निभम् ॥३॥ जातरूपपरिक्षिप्तं चित्रभानुसमप्रभम् । अशोकमालाविततं ददर्श परमासनम् ॥ ४॥ शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने नवमः सर्गः ॥९॥ तत्र दिव्योपममित्यादि । शयनासनं शयनस्यासनं खदक्षामित्यर्थः । दान्तानि । दन्तविकारभूतानि । काञ्चनानि काञ्चनमयानि च । अत एव चित्राणि नानावर्णानि अङ्गानि येषां तैः । प्रान्ते दन्तमयैः ततः परं काञ्चनमयैः । सर्वत्र वैयनिर्मितरित्यर्थः । महाधनः महापूल्यैः । वरासनैः शयनावरोहणकाले विश्रमाय स्थापितैः। उपपन्नम् आवतम् ॥ १॥२॥रामानु०-तत्रेति।। शयनासनम आस्यतेऽस्मिन्नित्यासनम्, शयनासनं पर्याधारधिष्ण्यमिति यावत ॥१॥ तस्येति । एकतमे देशे शिरोभाग इत्यर्थः ॥ ३॥ रामानु-तस्येति ।। तस्प चैकतमे देशे पर्याधारधिष्ण्पस्य कस्मिंश्चित्पदेशे ॥ ३॥ उक्तमेव पर्यईं पुनर्वर्णयन्त्राह-जातरूपपरिक्षिप्तमित्यादिना । चित्रभानोः सूर्यस्य । आर्तरूपस्सन पुनश्चाचिन्तयदिति सम्बन्धः ॥ ७३ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतस्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां नवमः सर्गः ॥९॥ तत्रेति श्लोकद्वयमेकं वाक्यम् । तत् प्रसिद्धम् । दिव्योपमम् इन्द्रशयनोपनम् । अवेक्षमाणः इतस्ततोऽवलोकयन । शयनासनं शयनं च तदासनं च शयनासन पर्यम्, उमयोपकारादुभयव्यपदेशः । यद्वा आस्यतेऽस्मिन्नित्यासनं शयन स्यासनं शयनासनम, शयनगृहमित्यर्थः । वडूयवरासन: उपपन्नममित आवृतं शयना सनं ददर्शति सम्बन्धः ॥१॥२॥ तस्येति । तस्य पर्यस्य । एकतमे देशे शिरोभागे ॥ ३॥ अथात्र रावणदर्शनाय पुनः पर्यदर्शनमाह-जातरूपेत्यादिशोक । For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy