________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू.
외국곡터
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
धानयोः । अवकाशावसरयोरवसानविनार्थयोः । विशेपमध्यतादर्येषु " इति दर्पणः । अतिनिद्वापरवशत्वेन निश्वलाङ्गतया निःशब्दभूषणमित्यर्थः ॥३६॥३७॥ प्रबुद्धानीति । अत्र वदनानीत्यनुषज्यते । तासां वदनानि क्षपाशये दिवसे पद्मानीव प्रबुद्धानि भूत्वा रात्रौ पुनः संवृतपत्राणि सङ्कचित | पत्राणि पद्मानीव बभुः॥३८॥ इमानीति । प्रार्थयन्ति प्रार्थयेरन् । मधुरसलुब्धतया अत्र पुनः पुनः पतेयुरित्यर्थः । व्यत्ययेन परस्मैपदम् । अनुदात्तत्वेन तासां संवृतदन्तानि मीलिताक्षाणि मारुतिः । अपश्यत् पद्मगन्धीनि वदनानि सुयोषिताम् ॥ ३७ ॥ प्रबुद्धानीव पद्मानि तासां भूत्वा क्षपाक्षये । पुनः संवृतपत्राणि रात्राविव बभुस्तदा ॥ ३८ ॥ इमानि मुखपद्मानि नियतं मत्तषट्पदाः । अम्बुजानीव फुल्लानि प्रार्थयन्ति पुनः पुनः ॥ ३९ ॥ इति चामन्यत श्रीमानुपपत्त्या महाकपिः । मेने हि गुणतस्तानि समानि सलिलोद्भवैः ॥४०॥ सा तस्य शुशुभे शाला ताभिः स्त्रीभिर्विराजिता । शारदीव प्रसन्ना द्यौस्ताराभिरभिशोभिता ॥ ४१ ॥ स च ताभिः परिवृतः शुशुभे राक्षसाधिपः । यथा ह्युडुपतिः श्रीमांस्ताराभि रभिसंवृतः ॥ ४२ ॥ याश्च्यवन्तेऽम्बरात्ताराः पुण्यशेषसमावृताः । इमास्ताः सङ्गताः कृत्स्ना इति मेने हरिस्तदा ॥ ४३ ॥ ताराणामिव सुव्यक्तं महतीनां शुभार्चिषाम् । प्रभावर्णप्रसादाश्च विरेजुस्तत्र योषिताम् ॥ ४४ ॥ व्यावृत्त गुरुपीनखक्प्रकीर्णवरभूषणाः । पानव्यायामकालेषु निद्रापहृतचेतसः ॥ ४५ ॥
आत्मनेपदत्वात् । नियतं नूनम् । उपपत्त्या युक्तया । उपपत्तिमेवाह मेन इति । तानि मुखानि । गुणतः सौरभादिगुणैः । सलिलोद्भवैः पद्यैः॥३९-४३ ॥ ताराणामिति । प्रभा कान्तिः । वर्णः रूपम् । प्रसादः प्रसन्नता ॥ ४४॥ व्यावृत्तेति । पानव्यायाम कालेषु पानानन्तरं भाविरतिव्यापारसमयेषु । व्यावृत्त यस्य तत् ॥ ३६ ॥ ३७ प्रबुद्धानीति । वदनानीत्यनुषज्यते । तासां वदनानि क्षपाक्षये दिवसे पद्मानीय प्रबुद्धानि भूत्वा रात्रौ पुनः संवृतपत्राणि पद्मानीव बभु रित्यन्वयः ॥ ३८ ॥ इमानीति । मत्तषट्टपदाः इमानि मुखपद्मानि कुलान्यम्बुजानीव पुनः पुनः प्रार्थयन्ति प्रार्थयेरन् । नियतं नूनम् । प्रार्थयन्त इति पाठे प्रार्थय माना भवेयुरिति शेषः ॥ ३९ ॥ उपपत्त्या युक्तया । इतीव इत्येवामन्यत उत्प्रेक्षिवान् । तामेवाह मेन इति । तानि मुखानि । गुणतः शैत्यसौरभ्यादिगुणैः, सलिलोद्भवेरम्बुजैः समानि मेने हीति योजना | ४०-४३ ॥ ताराणामिति । नभा देहकान्तिः । वर्णः रूपम् । प्रसादः औज्ज्वल्यम् ॥ ४४ ॥ व्यावृत्तेति । पान
For Private And Personal
टी. सुं.कां.
स० ९
॥३३॥