SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गुरुपीनस्रक्प्रकीर्णवरभूषणाः विपर्यस्तगुरुपीनस्त्रजः प्रकीर्णवरभूषणाश्च सत्यः निद्रापहृतचेतसः विरेजुः ॥ ४५ ॥ व्यावृत्ततिलकाः उन्मृष्टतिलकाः । उद्धान्तनूपुराः स्वस्थानानवस्थितनूपुराः ॥ ४६ ॥ मुक्ताहारावृताः मुक्ताहारैरावृताः, छिन्नमुक्ताहारा इत्यर्थः । व्याविद्धरशनादामाः छिन्नकाञ्चीगुणाः किशोर्यः प्रथमवयस्का वडवाः । वाहिताः मार्गश्रमनिवृत्त्यर्थं भूमौ प्रवेष्टनं कारिताः । सर्वत्र रेजुरित्यन्वयः ॥ ४७ ॥ ४८ ॥ चन्द्रांशुकिरणाभाः अंशुः व्यावृत्ततिलकाः काश्चित् काश्चिदुद्भ्रान्तनुपुराः । पार्श्वे गलितहाराश्च काश्चित् परमयोषितः ॥ ४६ ॥ मुक्ताहारा वृताश्चान्याः काश्चिद्विस्रस्तवाससः । व्याविद्धरशनादामाः किशोर्य इत्र वाहिताः ॥ ४७ ॥ सुकुण्डलधराश्चान्या विच्छिन्नमृदितस्रजः । गजेन्द्रमृदिताः फुल्ला लता इव महावने ॥ ४८ ॥ चन्द्रांशुकिरणाभाश्च हाराः कासांचिदुत्कटाः । हंसा इव बभुः सुताः स्तनमध्येषु योषिताम् ॥ ४९ ॥ अपरासां च वैडूर्याः कादम्बा इव पक्षिणः । हेमसूत्राणि चान्यासां चक्रवाका इवाभवन् ॥ ५० ॥ हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः । आपगा इव ता रेजुर्जघनैः पुलिनैरिव ॥५१॥ किङ्किणीजालसङ्कोशास्ता हैमविपुलाम्बुजाः । भावग्राहा यशस्तीराः सुप्ता नद्य इवाबभुः ॥ ५२ ॥ सूर्यः । “अथांशुः स्यान्मयूखे सवितर्यपि " इति दर्पणः । चन्द्रसूर्ययोः किरणानामाभेवाभा येषां ते तथा । उत्कटाः स्थूलाः ॥४९-५१॥ अथासां नदी समाधिं दर्शयति- किङ्किणीति । किङ्किणीजालसङ्काशाः किङ्किणीजालान्येव संकोशा मुकुलानि यासां ताः । एतत्स्थाने सत्कोशा इति पाठान्तरदर्शनात् संकोशशब्दो मुकुलवाचीत्यवगम्यते । भावाः शृङ्गारचेष्टाः त एव ग्राहाः नकाः यासां ताः । सुप्तिदशायामपि वासनावशाद्भावाभिव्यञ्जकसंस्थान व्यायामकालेषु पानानन्तर गीतनृत्तादिव्यापारकालेषु । व्यावृत्तगुरुपीन स्त्रवमकीर्णवरभूषणाः व्यावृत्ताः विपर्यस्ताः गुरुपीनस्त्रजश्च प्रकीर्णवरभूषणानि च यासां ताः तथाभूता विरेजुरिति पूर्वेण सम्बन्धः ॥४५॥ उद्धान्तनपुराः स्वस्थानानवस्थितनपुराः । व्याविद्धरशनादामाः चलत्काचीगुणाः । किशोर्यः वडवाः। वाहिताः अध्वश्रमनिवृत्त्यर्थं भूवेष्टनं कारिताः लयवन्धा भवन्ति तद्वदित्यर्थः ॥ ४६ ॥ ४७ ॥ सुकुण्डलेति । अस्मिन्विरेजुरित्यनुषज्यते ॥ ४८ ॥ अंशवः सूक्ष्मरश्मयः । किरणाः स्थूलरश्मयः ।। ४९-५१ ।। किङ्किणीजालान्येव सङ्कोशाः मुकुलाः यासां ताः । हैम नि हेमभूषणान्येव विपुलान्यम्बुजानि यासां ताः । भावग्राहाः भाषाः For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy