________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
कुबेरमित्यादि । ईहामृगसमायुक्तैः वृकप्रतिकृतियुक्तैः । कार्तस्वरहिरण्मयैः कार्तस्वरं सुवर्णम्, हिरण्यं रजतम् । “ कृताकृतं हेम रूप्यं हिरण्यमभि । धीयते " इति रजतस्यापि हिरण्यत्वाभिधानात् ॥ १२-१५॥रामानु-कुबेरमित्यारभ्य सर्वतः समलंकृतमित्यन्तमेकं वाक्यम् । अतो वक्ष्यमाणेन कूटागारशब्देन न पौनरुक्त्यम् । ईहामृगसमायुक्तैः कृत्रिमवृकयुक्तैः । कार्तस्वरहिरण्मयः सुवर्णरजतमयैः । “ कृताकृतं देम रूप्यं हिरण्यमभिधीयते " इति रजतस्यापि हिरण्यत्वाभिधानात् ॥ १२-१४॥
कुबेरमोजसा जित्वा लेभे तद्राक्षसेश्वरः॥ १२॥ ईहामृगसमायुक्तैः कार्तस्वरहिरण्मयैः। सुकृतैराचितं स्तम्भैः प्रदीप्तमिव च श्रिया ॥ १३॥ मेरुमन्दरसङ्काशैरुल्लिखद्भिरिवाम्बरम् । कूटागारैः शुभाकारैः सर्वतः समलंकृतम् ॥१४॥ज्वलनार्कप्रतीकाशं सुकृतं विश्वकर्मणा । हेमसोपानसंयुक्तं चारुप्रवरवेदिकम् ॥ १५ ॥ जालवातायनैर्युक्तं । काञ्चनैः स्फाटिकैरपि। इन्द्रनीलमहानीलमाणिप्रवरवेदिकम् ॥ १६॥ विद्रुमेण विचित्रेण मणिभिश्च महाधनैः । निस्तुलाभिश्च मुक्ताभिस्तलेनाभिविराजितम् ॥ १७॥ चन्दनेन च रक्तेन तपनीयनिभेन च । सुपुण्यगन्धिना युक्त
मादित्यतरुणोपमम् ॥१८॥ कूटागारैर्वराकारैर्विविधैः समलंकृतम् । विमानं पुष्पकं दिव्यमारोहमहाकपिः॥१९॥ जालवातायनैः जालानि तिर्यगूर्णविन्यस्तफलकषटितानि, वातायनानि केवलानि रन्ध्राणि । अर्थवेशद्यार्थमेकार्थे शब्दद्वयप्रयोगो वा । महानीला सिंहलद्वीपोद्भवनीलरत्नानि । महाधनः महामूल्यैः। निस्तुलाभिः सुवृत्ताभिः । तलेन, निर्मितेनेति शेषः । आदित्यतरुणोपमं तरुणादित्योपमम् । एतदन्ते लेभे तदाक्षसेश्वर इति संबध्यते । अन्यथा कूटागारित्यनेन पुनरुक्तिः स्यात् ॥ १६-१९ ॥रामानु०-ज्वलनार्कमतीकाशमित्यारभ्य आरुरोह महाकपि रित्यन्तमेकं वाक्यम् । जालवातायनयुक्तं कुड्योपरिभागे अलङ्कारार्थ स्वस्तिकसर्वतोभद्राद्याकारेण यत्नवत्तया कृतं जालम् । वायुसञ्चारार्थ कृतो गवाक्षो वातायनम् । इन्द्रनीलमहानीलति ।
मत्तवारणः ॥ १०-१२ ॥ ईहामृगसमायुक्तरित्यादीनामारुरोह महाकपिरित्युत्तरेण सम्बन्धः । हामृगाः कृत्रिममृगाः । कार्तस्वरहिरण्मयैः सुवर्णरजतमयैः PA॥ १३-१५ ॥ जालवातायनयुक्तं कुड्योपरिमागे अलवारार्थ स्वस्तिकसर्वतोभद्राद्याकारणायामवत या कृतं जालम् । वायुसञ्चारार्थ कृतो गवाक्ष: वातायनम् ।
इन्द्रनीलः क्षीरस्य नेल्यप्रकाशोत्पादकः, महानीला सिंहलद्वीपाकरोतः। विदुमण महाधनेः मणिभिः निस्तुलाभिः वर्तुलाभिः मुक्तामिश्च करणः विचित्रण तलेन कुट्टिमेन विराजितमिति सम्बन्धः ॥ १६ ॥ १७ ॥ आदित्यतरुणोपमं तरुणादित्योपमम् ।.१८॥ १९ ॥
For Private And Personal