SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra खा.रा.भू. ॥३१॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir राक्षसेन्द्रनिवेशनं पुष्पकमध्यस्थालयादन्यन्मूलस्थानम् || ४ || ५ || राक्षसीभिरित्यादिश्लोकद्वये आससादेति संबध्यते । रावणस्य निवेशनमिति पुनरुपा दानमपूर्वविशेषणविवक्षया ॥ ६ ॥ नकः कुम्भीरः । तिमिङ्गिलः महामत्स्यः । झषः केवलमत्स्यः ॥ ७-९ ॥ रामानु० - हनुमता प्राप्तरावणभवनस्य राक्षस भवनानां च सर्वोत्तरतां दर्शयितुं तत्समृद्धिमनुसन्धत्ते या हि वैश्रवण इत्यादिस्लोकद्वयेन । वैश्रवणेन्द्रयोर्ग्रहणमितर दिक्पालानामप्युपलक्षणम् । " रावणस्य गृहे सर्वा नित्यमेवानपायिनी " इत्यभिधानात सर्वदिक्पालानामैश्वर्यमेकस्मिन् रावणभवने सर्वदा वर्तत इत्यवगम्यते ॥ ८ ॥ या चेति । तद्विशिष्टा ततोप्यधिका । रक्षोगृहेषु रावणभ्रातृपुत्रामात्यादिराक्षसगृहेषु । अत्र ऋद्धेः सर्वशब्देनाविंशेषितत्वात्कुबेरा येकैकदिक्पालैश्वर्यं रक्षसां गृहेषु प्रत्येकं वर्तत इत्यर्थः ॥ ९ ॥ तस्य हर्म्यस्येत्यादि । पूर्वमुक्तार्थस्यापि पुनरुपन्यासः पुष्पकस्य मध्ये राक्षसीभिश्व पत्नीभी रावणस्य निवेशनम् । आहताभिश्च विक्रम्य राजकन्याभिरावृतम् ॥ ६ ॥ तन्त्रक्रमकराकीर्ण तिमिङ्गिलझषाकुलम् । वायुवेगसमाधूतं पन्नगैरिव सागरम् ॥ ७ ॥ या हि वैश्रवणे लक्ष्मीर्या चेन्द्रे हरिवाहने । सारावणगृहे सर्वा नित्यमेवानपायिनी ॥ ८ ॥ या च राज्ञः कुबेरस्य यमस्य वरुणस्य च । तादृशी तद्विशिष्टा वा ऋद्धी रक्षोगृहेष्विह ॥ ९ ॥ तस्य हर्म्यस्य मध्यस्थं वेश्म चान्यत्सुनिर्मितम् । बहुनिर्यूहसङ्कीर्ण ददर्श पवनात्मजः ॥ १० ॥ ब्रह्मणार्थे कृतं दिव्यं दिवि यद्विश्वकर्मणा । विमानं पुष्पकं नाम सर्वरत्नविभूषितम् । परेण तपसा लेभे यत्कुबेरः पितामहात् ॥ ११ ॥ रावणस्य निवासभवनमन्यदस्तीत्यस्यार्थस्य स्पष्टीभावार्थम् । निर्यूहः मत्तवारणः ॥ १० ॥ रामानु० - तस्येति । तस्य हर्म्यस्य पूर्वोक्तविशेषणविशिष्टस्य | रावणभवनस्य । बहुनिर्युहसंकीर्णम् निर्यूहो मत्तवारणः ॥ १० ॥ ब्रह्मणोऽर्थ इत्यादि । ब्रह्मणोऽर्थे कृतं यत्कुबेरस्तपसा लेभे तद्वेश्म ददर्शेति पूर्वेण सम्बन्धः॥ ११ ॥ जीव्यत्वात्सर्वराक्षससाधारणत्वमुक्तम् । राक्षसेन्द्रनिवेशनं रावणभवनम् । परिक्षिप्तं परिवेष्टितम् । उदायुधैः, राक्षसेरिति शेषः ॥ ४ ॥ ५ ॥ राक्षसीभिरिति रावणस्य निवेशनं निवेश्यन्ते परिगृह्यन्ते पत्न्योऽश्रेति निवेशनम्, रावणस्थानमित्यर्थः । अपश्यदिति शेषः । अत एव पत्नीभिरावृतम् ॥ ६-८ ॥ या चेत्यादि लोकद्वयेन रावणगृहसर्वराक्षसगृहवर्तमानां लक्ष्मीमनुसन्धत्ते । या लक्ष्मीः वैश्रवणादिषु नित्यानपायिनी सा सर्वापि रावणगृहे सर्व राक्षसगृहेषु च तादृशी तद्विशिष्टा ततोप्यधिका वेति सम्बन्धः । लक्ष्मीः शोभा । ऋद्धिः ऐश्वर्यम् ॥ ९ ॥ तस्य हर्म्यस्येत्यादिश्लोकत्रयस्य पवनात्मजः तद्विमानं ददर्शेति सम्बन्धः । निर्यूहो स० [ हरिवाहने "लफ्रेशवाल रोमाणि सुवर्णामानि यस्य तु । हारैः सवर्गतोऽधस्तु पीतकौशेयसमः ॥ " इति शालिहोत्रोकलक्षणोपेतो योऽधः स हरिरित्युच्यते । स वाहनं यस्य तस्मिन् । या हरिवाहने सूर्ये । " हरिवाहन इत्युक्तिः शचीपतिविवस्त्रतोः " इति विश्वः । अनपायिनी अविश्लेषा ॥ ८ ॥ For Private And Personal टी. सुं.कां. स० ९ ॥३२॥
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy