________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyarmandir
पूर्वोक्तविमानवर्णनं विस्तृणीते-स तस्येत्यादि । प्रतप्तजाम्बूनदजालकृत्रिमं निष्टप्तस्वर्णविशेषकृतकृत्रिमपक्ष्यादिकम् ॥ १ ॥ तदिति । अप्रतिमेया प्रतिकारकृत्रिमम् अपरिच्छेद्याप्रतिक्रियकृत्रिमम् । तत्र हेतुमाह कृतं स्वयं साविति । विश्वकर्मणा स्वयं निर्मात्रा विश्वकर्मणा इदं साधु सुन्दरमिति वाघापूर्व कृतम् । सर्वत्राप्रतिहतसञ्चारं चैतदित्याह-दिवं गतम् आकाशगतम् । वायुपथप्रतिष्ठितं वायुमार्गभूतान्तरिक्षस्थितम् । मध्ये भवनस्य संस्थित मिति पूर्वमुक्तत्वात् भूतलप्रत्यासन्नान्तरिक्षस्थितमित्यर्थः । आदित्यपथस्य लक्ष्मवत् लक्ष्म लक्षणं व्यावर्तकम्, व्यराजत प्रचकाश इत्यर्थः ॥२॥
स तस्य मध्ये भवनस्य संस्थितं महद्विमानं मणिवचचित्रितम् । प्रतप्तजाम्बूनदजाल कृत्रिमं ददर्श वीरः पवना त्मजः कपिः ॥१॥ तदप्रमेयाऽप्रतिकारकृत्रिमं कृतं स्वयं साध्विति विश्वकर्मणा । दिवं गतं वायुपथप्रतिष्ठितं व्यराजतादित्यपथस्य लक्ष्मवत् ॥२॥न तत्र किंचिन्नकृतं प्रयत्नतो न तत्र किंचिन्नमहार्हरत्नवत् । न ते विशेषा नियताः सुरेष्वपि न तत्र किंचिन्नमहाविशेषवत् ॥ ३॥ तपःसमाधानपराक्रमार्जितं मनःसमाधान' विचारचारिणम् । अनेकसंस्थानविशेषनिर्मितं ततस्ततस्तुल्यविशेषदर्शनम् ॥ ४॥ न तति । ते विशेषाः तद्धिमानस्थितविशेषाः । सुरेष्वपि सुरालयेष्वपि ॥३॥ तपस्समाधानत्यादि पञ्चश्लोकी कुलकम् । सर्वत्र ददर्शति संबन्धः । तपस्समाधानपराक्रमार्जितं तपस्समाधानेन तपोनुष्ठानेन पराकमेण च अर्जितम् । मनस्समाधानविचारचारिणं समाधानमाभिसन्धानम् । कर्मणि चैतत्। विचारो विविधा गतिः । मनोभिसंहितविविधगतिचारिणम् । अनेकसंस्थानविशेषनिर्मितम् अनेकैस्संस्थानविशेषैः विमानगोपुरादिसन्निवेशैः निर्मितम् ।
भूयः पुष्पकं वर्णयति-स तस्येत्यादिना । प्रतप्तजाम्बूनदजालकृषिमं तप्तहेमगवाक्षाणां कृत्रिम निर्माणं यस्मिन् तत्, प्रतप्तजाम्बूनदसमूहैः निष्पन्नमिति वा ॥१॥ अप्रमेयाप्रतिकारकृत्रिमम् अपरिच्छेद्यमप्रतिकारमप्रतिनिर्माणं यथा भवति तथा निर्वृत्तम् । कृतं स्वयं साध्विति विश्वकर्मणा स्वयं साध्विति कृतम्, निर्माण बेलायो प्रशंसापूर्वकं कृतमित्यर्थः । दिवं गतम् आकाशगतं वायुपथप्रतिष्ठितम् अन्तरिक्षस्थितम् । आदित्यपथस्य लक्ष्मवत् आदित्यमार्गचिहमिव ॥२॥ नकृतमित्यादौ नार्थस्य नशचस्प " सुप्सुपा" इति समासः। तत्र विमाने । प्रयत्नतो न कृतमकृतम्, सर्वमपि प्रयत्नतः कृतमेवेत्यर्थः। ये विशेषा रचना विशेषाः तत्र नियताः प्रतिष्ठिताः ते सुरेष्वपि सुरविमानेष्वपि ॥३॥ तपस्समाधानं तपोनुष्ठानं तेन च पराक्रमेण चार्जितम् । मनस्तमाधानविचारचारिणम्,INI
For Private And Personal