SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir बा.रा.भू. रुचिरावृत्तामिदम् । " चतुर्ग्रहैरिह रुचिरा जभमजगाः " इति लक्षणात् ॥ १५ ॥ रामानु० - इतीवेति । इतीव शोभनम् । इतीवेति निपातसमुदायः प्रकारवाची । “प्रासाद ॥२९॥ सङ्घातयुतं खीरत्नशतसंकुलम् । सुव्यूढकक्ष्यं हनुमान् प्रविवेश महागृहम्" इत्युक्तप्रकारेण रमणीयम् । चारुशोभनं चारुमङ्गलम् । नगमिव स्थितं तत् गृद्मभिगम्य अभितो गत्वा सविस्मयः अभूदिति शेषः । अभितश्वरित्वापि सस्त्रीकरावणस्थितप्रदेशानधिगमात् सविस्मयोऽभूदित्यर्थः । हिमात्यये शीतकालात्यये । वसन्तकाल इति यावत् । चारुकन्दरं नगामेव परम सुगन्धि सुन्दरं तद्गृहं पुनश्चाभिगम्य अभितो गत्वा । सविस्मयोऽभूत्, परिच्छेदानधिगमादिति भावः ॥ १५ ॥ तत इति । अदृश्य अदृष्ट्वा । ऋषिनिपातनान्नञ्पूर्वेपि ल्यप् ततः सतां कपिरभिपत्य पूजितां चरन पुरीं दशमुखबाहुपालिताम् । अदृश्य तां जनकसुतां सुपूजितां सुदुःखितः पतिगुण वेगनिर्जिताम् ॥ १६ ॥ ततस्तदा बहुविधभावितात्मनः कृतात्मनो जनकसुतां सुवर्त्मनः । अपश्यतोऽभवदति दुःखितं मनः सुचक्षुषः प्रविचरतो महात्मनः ॥ १७ ॥ इत्यार्षे० श्रीरामायणे श्रीमत्सुन्दरकाण्डे सप्तमः सर्गः ॥ ७ ॥ सुदुःखितः, अभूदिति शेषः । पतिगुणवेगनिर्जितां भर्तृगुणजवेन वशीकृताम् ॥ १६ ॥ ततस्तदेति । बहुविधभावितात्मनः बहुविधं यथा भवति तथा चिन्तितात्मनः । कृतात्मनः निशितबुद्धेः। सुवर्त्मनः सदाचारसम्पन्नस्य । सुचक्षुषः दूरसूक्ष्मादिदर्शनेषु अप्रतिहतनयनतेजसः। महात्मनः महाधैर्यस्य ॥ १७ रामानु०- ततस्तदेति । बहुविधभावितात्मनः बहुविधभावितमनसः । बहुविधचिन्तान्वितचित्तस्पेति यावत् । कृतात्मनः कृतप्रयत्नस्य । " आत्मा देदे धृतौ यत्ने स्वभावपरमात्मनोः " इति वैजयन्ती । सुवर्त्मनः शोभननीतिमार्गवर्तिन इत्यर्थः । सुचक्षुषः सकृदालोकनेन द्रष्टव्यं सर्वे करतलामलकवत्साक्षात्कर्तुं क्षमस्य ॥ १७ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायण भूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्ड व्याख्याने सप्तमः सर्गः ॥ ७ ॥ कन्दरं नगमिव परमसुगन्धिसुन्दरं तद्गृहं पुनश्चाभिगम्य अभितो गत्वा सविस्मयोऽभूत्, परिच्छेदानधिगमादिति भावः ॥ १५ ॥ तत इति । तां पुरीं चरन् कपिः पतिगुणवेगनिर्जितां पतिगुणोत्कर्षवशीकृताम् । जनकात्मजाम् अदृश्य अदृष्ट्वा सुदुःखितः, अभूदिति शेषः ॥ १६ ॥ बहुविधभावितात्मनः बहुविधचिन्तान्वित चित्तस्येत्यर्थः । कृतात्मनः कृतप्रयत्नस्य । सुवर्त्मनः शोभननीतिमार्गवर्तिनः । सुचक्षुषः दूरसाक्षात्कारसमर्थस्येत्यर्थः ॥ १७ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणत्तत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां सप्तमः सर्गः ॥ ७ ॥ स० [दृश्यस्य भावो दृश्यता । न विद्यते दृश्यता यस्यास्सा तथा । तामुदिश्प दुःखितोऽभूदिति वा पतिगुणवेगनिर्जितां पत्युः रामस्य यो गुणवेगः गुणप्रवाहः तेन निर्जिताम् । पत्या रामेण कर्त्रा गुणवेगेन ज्याकर्षणवेगेन धनुर्मङ्गद्वारा निर्जितां नितरां प्राप्ताम् ॥ १६ ॥ बहुविधभावितात्मनः यप्रकारं ध्यातरामरूपस्वामिकस्य ॥ १७ ॥ For Private And Personal टी.सं.की. म० ७ ॥२९॥
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy