________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
जत्ववनायुजत्वादिविशिष्टाश्वाकारसदृशाः ॥ १२॥ प्रवालजामूनदकृतानि पुष्पाणि पक्षेषु येषां ते प्रमालजाम्बूनदपुष्पपक्षाः । सलीलमावर्जितजिह्मपक्षाः सलीलमालम्बितवकपक्षाः। कामस्य पक्षाइव कामस्य सहाया इव ॥१३॥रामानु-प्रवालजाम्बूनदमयानि पुष्पाणि पक्षेषु येषां ते तयोक्ताः । सलीलमावर्जित जिह्मपक्षाः सलीलमानमितवक्रपक्षाः । कामस्य साक्षात्पक्षा इव मदनस्य साक्षात्सहाया इव, कामोद्दीपका इति यावत् ॥ १३॥ नियुज्यमानाः स्वयमेवात्मानं नियोजयन्तः । कर्म
प्रवालजाम्बूनदपुष्पपक्षाः सलीलमावर्जितजिह्मपक्षाः। कामस्य साक्षादिव भान्ति पक्षाः कृता विहङ्गाः सुमुखाः सुपक्षाः॥१३॥ नियुज्यमानास्तु गजाः सुहस्ताः सकेसराश्वोत्पलपत्रहस्ताः । बभूव देवी च कृता सुहस्ता लक्ष्मीस्तथा पद्मिनि पद्महस्ता ॥१४॥ इतीव तद् गृहमभिगम्य शोभनं सविस्मयो नगमिव चारुशोभनम् । पुनश्च
तत्परमसुगन्धि सुन्दरं हिमात्यये नगमिव चारुकन्दरम् ॥ १५॥ कर्तरि यक । यत्र विमाने । पधिनि पद्माकरे । स्वयमेवोत्पलपत्राभिषेककर्मणि प्रवर्तमानाः । सुहस्ताः शोभनशुण्डादण्डाः । सकेसराः कृतजलावगाह त्वेनाङ्गलग्रकिअल्काः । उत्पलपत्रहस्ताः उत्पलपत्रवर्षिणः । गजाश्च कृताः तदभिषिच्यमाना पद्महस्ता अत एव सुहस्ता लक्ष्मीश्च कृता बभूवेत्यर्थः ॥१४॥रामानु०-नियुज्यमानाः स्वयमेव व्याप्रियमाणाः । कर्मकर्तरि यक् । सकेसराः पद्माकरविहारिगजाकारनिर्माणात् सकेसरत्वम् । पश्मिनि पद्माकरे ॥ १४ ॥ इतीवेति । इवशब्दो वाक्यालङ्कारे । तदगृहं तस्य रावणस्य गृहम् । सविस्मयः, अभूदिति शेषः । नगं पर्वतमिव स्थितम् । शोभनं शोभमानम् । चारुशोभनं| चारुमङ्गलम् । इतीवेत्येकनिपातो वा प्रकारार्थः।इतीव तद्गृहम् अभिगम्य अभिगत्य । अद्भुतदर्शनात्पुनश्चाभिगम्य सविस्मयोऽभूदिति योजना । सन्तीत्याह-कृताश्चेत्यादिना । जात्यानुरूपाः जातितुरङ्गसहशाः॥१२॥ प्रवालजाम्बूनदमयानि पुष्पाणि पक्षेषु येषां ते तथोक्ताः। सलीलमावजितजिह्मपक्षाः सलील मावर्जिता आकुचिताः जिरा वक्राः पक्षा येषां ते । कामस्य पक्षाः सहायाः, कामोद्दीपका इति यावत् ॥ १३ ॥ नियुज्यमानाः स्वयमेव व्याभिषमाणाः यत्र कृत्रिमगजाः, सन्तीति शेषः । कर्मकर्तरि यक । सकेसरा: पद्माकरविहारिगजाकारनिर्माणात सकेसरत्वादिकम् । पचिनि पद्माकरे पद्महस्ता लक्ष्मीः यत्र कृता, बभूवेति शेषः ॥१४॥ इतीवेति निपातसमुदायः प्रकाशवाची । इति पूर्वोक्तप्रकारेण रमणीयं चारु शोभनं नगमिव पर्वतमिव स्थितम्, तराई रावणगृहम् अभिD गम्य अभितो गत्वा सविस्मयः, अभूदिति शेषः । अमितो गत्वापि सखीकरावणावस्थितप्रदेशं नागममिति सविस्मयोऽभूदित्यर्थः। हिमात्यये वसन्तकाले । चारु HI सा-हिमात्यये वसन्ते । हिमशब्देन तयुक्तमासचतुष्टयमहणात् ॥ १५॥
For Private And Personal