________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
७ नानारत्नराजितानि ॥ ३ ॥ प्रयत्नाभिसमाहितानि प्रयत्नेन यथायोगं स्थापितानि । मयेनेति विश्वकर्मा लक्ष्यते । महीतले निर्मितानि । इवशब्देन मयस्य निर्मातृत्वव्याजमात्रम् । रावणप्रयत्नेनैव निर्मितानीत्यर्थः । यद्वा अन्यानि गृहाणि विश्वकर्मनिर्मितानि, इमानि तु मयं व्याजीकृत्य स्वयमुपाय प्रदर्शनमुखेन निर्मितानीति पूर्वगृहेभ्यो विशेष उच्यते ॥ ४ ॥ तदन्तर्वर्तिपुष्पक विमानं दर्शयति तत इति । अप्रतिरूपरूपम् अप्रतिमसौन्दर्यम् । तानि प्रयत्नाभिसमाहितानि मयेन साक्षादिव निर्मितानि । महीतले सर्वगुणोत्तराणि ददर्श लङ्काधिपतेर्गृहाणि ॥ ४ ॥ ततो ददर्शोच्छ्रितमेवरूपं मनोहरं काञ्चनचारुरूपम् । रक्षोधिपस्यात्मबलानुरूपं गृहोत्तमं ह्यप्रति रूपरूपम् ॥५॥ महीतले स्वर्गमिव प्रकीर्ण श्रिया ज्वलन्तं बहुरत्नकीर्णम् । नानातरूणां कुसुमाकीर्णे गिरेरिवाग्रं रजसाऽवकीर्णम् ॥ ६ ॥ नारीप्रवे कैरिव दीप्यमानं तडिद्भिरम्भोदवदर्च्यमानम् । हंसप्रवकैरिव वाह्यमानं श्रिया तं खे सुकृतां विमानम् ॥ ७ ॥ यथा नगाग्रं बहुधातुचित्रं यथा नभश्च ग्रहचन्द्रचित्रम । ददर्श युक्तीकृत मेघचित्र विमानरत्नं बहुरत्नचित्रम् ॥ ८ ॥
प्रकीर्ण दैवाच्युतम् । रजसा पुष्परजसा । नारीप्रवेकैः नारीश्रेष्ठैः । " प्रवेकानुत्तमोत्तमाः " इत्यमरः । इवशब्दो वाक्यालङ्कारे । अर्च्यमानं, सर्वैरिति शेषः । हंसप्रवेकैर्वाह्यमानं सुकृतां पुण्यकृतां विमानमिव स्थितमित्यन्वयः । युक्तीकृतमेघचित्रं पुञ्जीकृतमेषचित्रम्, चित्रमेषसङ्घातसदृशमित्यर्थः । | विमानरत्नं पुष्पकम् ॥ ५-८ ॥ रामानु० - वैश्रवणं निर्जित्य गृहीतं पुष्पकं वर्ण्यते तत इत्यादिना । ततः गृहदर्शनानन्तरम् । आत्मबलानुरूपम् आत्मनोऽप्रतिबलस्य सदृशम् । गृहोत्तममिति पुष्पकमुच्यते । पुष्पकस्यापि गृहलक्षणसद्भावात् । एतच्च पुष्पाह्वयमित्यनेन व्यक्तीभविष्यति । रजसा पुष्परजसा । तडिद्भिरिव स्थितेनारीप्रवेकरम्भोदवदीप्यमानमिव स्थितमिति माक्रम्य हतानि || ३ || प्रयत्नाभिसमाहितानि प्रयत्नेनाभितः सम्यगाहितानि यथायोगं संस्थापितानीत्यर्थः । मयेन निर्मितानीव विश्वकर्मनिर्मितान्यपि मयेन विचित्र विधानेन समाहितत्वात् तेनैव साक्षान्निर्मितानीत्यर्थः ॥ ४ ॥ । अथ पुष्पकं वर्णयति-तत इत्यादिना । आत्मबलानुरूपम् आत्मनोऽप्रतिबलस्य सदृशम् । गृहोत्तम मिति पुष्पकमुच्यते ॥ ५ ॥ बहुरत्नकीर्ण बहुरत्नपूर्णम् । रजसा पुष्परजसा ॥ ६ ॥ तडिद्भिः अम्भोदवत् । नारीमवेकैरिव नारीश्रेष्ठेरिव । इव एवार्थे । दीप्यमानम् अर्च्यमानम् । हंसप्रवेकैः वाह्यमानं सुकृतां विमानमिवेत्यन्वयः । वाह्यमानम् उह्यमानम् । स्वार्थे णिच् ॥ ७ ॥ युक्तीकृतमेघचित्रं समूहीकृतनानावर्णमेघवद्विचित्र स० [प्रयत्नाभिसमाहितानि प्रयत्नेन विश्वकर्मण इति शेषः ॥ ४ ॥
For Private And Personal