________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
कृतवेदं मध्वासवैः मधुविकारमयैः कृतक्केदं कृतसेकम् । घोषवद्भिः नादवद्भिः । नादश्च दीर्घशब्दस्य विरामसमयसम्भवो ध्वनिः । व्यूटकक्ष्यं विशाल वा.रा.भूमि
प्रकोष्ठम् । अस्मिन् सर्गे साईचतुश्चत्वारिंशच्छलोकाः॥४२-४४॥ इति श्रीगो श्रीरामा शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने षष्ठः सर्गः॥६॥ टी..का. ॥२७॥
मृदङ्गतलघोषैश्च घोषवद्भिविनादितम् । प्रासादसङ्घातयुतं स्त्रीरत्नशतसंकुलम् ॥ ४३ ॥ सुव्यूढकक्ष्यं हनुमान प्रविवेश महागृहम्॥४४॥ इत्यार्षे श्रीरामायणेवाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षष्ठः सर्गः ॥६॥
सवेश्मजालं बलवान् ददर्श व्यासक्तवैडूर्यसुवर्णजालम् । यथा महत् प्रावृषि मेघजालं विद्युत्पिनद्धं सविहङ्ग जालम् ॥ ॥ निवेशनानां विविधाश्च शालाः प्रधानशङ्खायुधचापशालाः। मनोहराश्चापि पुनर्विशाला ददर्श । वेश्मादिषु चन्द्रशालाः॥२॥ गृहाणि नानावसुराजितानि देवासुरैश्चापि सुपूजितानि । सर्वेश्च दोषैः परिवर्जितानि कपिर्ददर्श स्वबलार्जितानि ॥३॥ स वेश्मजालमित्यादि । व्यासक्तवैडूर्यसुवर्णजालं वैडूर्यघटितसुवर्णमयजालकरन्ध्रम् ॥ १ ॥ निवेशनानां शालाः गृहान्तःशालाः। प्रधानैर्मुख्यैः ।। शङ्कायुधचापः शालन्ते प्रकाशन्त इति प्रधानशतायुधचापशालाः। पचायच । वेश्मादिषु हर्म्यप्रासादादिषु । चन्द्रशालाः शिरोगृहाणि ॥२॥ रामानु०-नानाविधानि कर्माणि यासां ताः नानाविधकर्माणः शालाश्च नानाविधकर्मशालाः । कक्ष्याश्च नानाविधकर्मशाला इत्ययं पाठः । निवेशनानां विविधाश्च शाला इति पाठे प्रधानभवनानां संबन्धिनीर्विविधाः शाला इत्यर्थः । प्रधानशतायुधचापशालाः प्रधानैर्मुख्यैः शङ्करायुधैः चापैश्च शालन्त इति प्रधानशतायुधचापशालाः ताः । पचाद्यच् । वेश्मान्यद्रय इव वेश्माद्रयः तेषु । वेश्मादिश्चिति पाठे आदिशब्देन प्रासादादय उच्यन्ते । चन्द्रशालाः शिरोगृहाणि । “चन्द्रशाला शिरोगृहम् " इत्यमरः ॥२॥ नानावसुराजितानि घोषवद्भिः नादविशेषयुक्तः । अनुक्तैरन्यैश्च । सुव्यूटकक्ष्यं सन्निवेशितप्रकोष्ठम् । व्यूहः पद्मस्वस्तिकादिरचनाविशेषः ॥ ४३ ॥ ४४ ॥ इति श्रीमहेश्वरतीर्थ विरचितायां श्रीरामायणतत्त्वदीपिकारुयायां सुन्दरकाण्डव्याख्यायो षष्ठः सर्गः ॥६॥ स वेश्मेति । व्यासक्तवैदूर्यसुवर्णजालं खचितवैडूर्यस्वर्णगवाक्षम् । सविहङ्गा जालमित्युपमेयपि योज्यम् ॥१॥ निवेशनानां गृहाणी सम्बन्धिनी शाला: अवान्तरगृहाणि । प्रधानशतायुधचापशालाः प्रधानमुख्यः शङ्खादिभिः शालन्त इति|| पचाद्यच । वेश्माद्रिषु वेश्मान्यद्रय इव तेषु । चन्द्रशाला:शिरोगृहाणि । वेश्मादिष्विति पाठे-आदिशब्देन प्रासादादयश्च लक्ष्यन्ते ॥ २॥ स्वबलार्जितानि कुबेर
For Private And Personal