________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalashsagarsuri Gyarmandir
सहस्रमिति । वाहिनीः सेनाः, पदातीनित्यर्थः । जाम्बूनदं जम्बूनदीप्रभवं स्वर्णम् । हेम केवलस्वर्णम्, उभयावधस्वर्णमयाभरणयुक्ता इत्यर्थः ॥ ३४ ॥ ३५ ॥ शिविका इत्यादि । दारुपर्वतकान् क्रीडापर्वतकान् । कामस्य गृहकं रतिगृहम् । दिवाग्रहकं दिवाविनोदस्थानम् । रावणस्य
सहस्रं वाहिनीस्तत्र जाम्बूनदपरिष्कृताः। हेमजालपरिच्छन्नास्तरुणादित्यसन्निभाः ॥ ३४॥ ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ॥ ३५॥ शिविका विविधाकाराः स कपिर्मारुतात्मजः । लतागृहाणि चित्राणि चित्रशाला गृहाणि च ॥ ३६॥ क्रीडागृहाणि चान्यानि दारुपर्वतकानपि । कामस्य गृहकं रम्यं दिवागृहकमेव च । ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ॥ ३७॥ स मन्दरगिरिप्रख्यं मयूरस्थानसंकुलम् । ध्वजयष्टिभिराकीर्ण ददर्श भवनोत्तमम् ॥ ३८ ॥ अनेकरत्नसङ्कीर्ण निधिजालं समन्ततः। धीरनिष्ठितकर्मान्तं गृहं भूतपतेरिव ॥ ३९ ॥ अर्चिभिश्चापि रत्नानां तेजसा रावणस्य च । विरराजाथ तद्वेश्म रश्मिमानिव रश्मिभिः॥४०॥जाम्बूनदमयान्येव शयनान्यासनानि च । भाजनानि च मुख्यानि ददर्श हरियूथपः॥४१॥ मध्वासवकृतक्लेदं मणिभाजनसंकुलम् ।
मनोरममसम्बाधं कुबेरभवनं यथा। नूपुराणां च घोषेण काश्चीनां निनदेन च ॥४२॥ निवेशने इति पाठः ॥३६॥३७॥ स इत्यादि । मयूरस्थानं क्रीडामयूरविश्रमस्थानम् । कपोतानामिव मयूराणामपि स्थानानि शिलाभिः कल्प्यन्त इति । प्रसिद्धम् । धीरनिष्ठितकर्मान्तं धीरेः कृतकल्पकर्मकम् । भूतपतेः प्रमथाधिपस्य ॥३८॥३९॥ अर्चिभिरिति । रश्मिमान् सूर्यः॥४०॥४१॥ मध्वासव लतागृहाणीति । चित्रशालागृहाणि चित्रशालायुक्तगृहाणि । दारुपर्वतकान् दारुमयक्रीडापर्वतान् । कामस्य गृहक कामोद्दीपकं गृहम् । दिवागृहक दिवाविहारोचित चित्रगृहम् । मयूरस्थानानि क्रीडामपूरस्थानानि ॥३६-३८॥ धीरनिष्ठितकान्तं निष्ठिता निष्ठितवन्तः दृढव्रताः। धीराव ते निष्ठिताच धीरनिष्ठिताः तेषां कर्म । तपोरूपं तस्यान्तः फलम्, महातपाफलमिति यावत् । भूतपतेः शिवस्य ॥ ३९-४१॥ मध्विति । मध्वासवकृतलेदमध्यासः क्षौद्रविकारमधैः कृतद्रवम् ॥ ४२ ॥ विषम-सहसं वाजिनः अनेकानश्वान् । हेमजालेरविच्छताः इतिपाठः । सर्वतो भूषिता इति शिविकाविशेषणम् ॥ ३४ ॥
For Private And Personal