SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailashsagarsun Gyarmandir रामानु०-राजगुणसंपन्नं राजगुणाश्छत्रचामरादयः तैः समृद्धम् । नित्याचितं गन्धपुष्पादिभिनित्यमचिंतम् । पर्वसु हुतं होमो यस्मिन् तत् पर्वहुतम् । रावणस्याहिताग्नित्वात्तदगृहे पर्वसु दर्शपूर्णमासादिहोमसद्भावः । अस्याहितामित्वं युद्धकाण्डे प्रसिद्धम् । पृजितं राक्षसैः सदा । स्वामिगृहत्वादाक्षसैः सदा नमस्कृतम् । " पूजा नमस्याऽपचितिः " इत्यमरः । नित्याचितं सर्वसुखमूर्जितमिति वा पाठः । पर्वयुतमिति पाठे पर्वशब्देनोल्सर उच्यते ॥ ११॥ १२ ॥ समुद्रमिव निःस्वनं निःशब्दम्, रावणभीत्या जनकोलाहलरहितमित्यर्थः समुद्रस्वननिस्वनमिति तु बाह्यकक्ष्यापेक्षया ॥ १३॥ १४॥ रामानु०-समुद्रामिति । समुद्रमिव नितरां स्वनतीति निस्वनम् । पचायच् ॥१३॥ चचारेति । रावणस्य समुद्रमिव गम्भीरं समुद्रमिव निःस्वनम् । महात्मनो महदेश्म महारत्नपरिच्छदम् । महारत्नसमाकीर्ण ददर्श स महाकपिः॥ १३ ॥ विराजमानं वपुषा गजाश्वरथसङ्कुलम् । लङ्काभरणमित्येव सोऽमन्यत महाकपिः ॥१४॥ चचार हनुमास्तत्र रावणस्य समीपतः ॥ १५॥ गृहाद् गृहं राक्षसानामुद्यानानि च वानरः । वीक्षमाणो ह्यसंत्रस्तः प्रासादोश्च चचार सः॥१६॥ अवप्लुत्य पाहावेगः प्रहस्तस्य निवेशनम् । ततोऽन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् ॥ १७॥ अथ मेघप्रतीकाशं कुम्भकर्णनिवेशनम् । विभीषणस्य च तदा पुप्लुवे स महाकपिः ॥१८॥ महोदरस्य च गृहं विरूपाक्षस्य चैव हि। विद्युजिह्वस्य भवनं विद्युन्मालेस्तथैव च । वचदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः ॥ १९॥ शुकस्य च महातेजाःसारणस्य च धीमतः। तथा चेन्द्रजितो वेश्म जगाम हरियूथपः ॥२०॥ जम्बुमालेः सुमालेश्च जगाम हरिसत्तमः। रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च ॥ २१॥ वजकायस्य च तथा पुप्लुवे स महाकपिः। धूम्राक्षस्य च संपातेर्भवनं मारुतात्मजः ॥२२॥ रावणगृहस्य ॥१५-२२ ॥ रामानु०-चचारेति । तत्र पूर्वोक्तपाकारवेष्टितस्थले । रावणस्य रावणभवनस्य समीपतः ॥ १५ ॥ गृहाद्गृहमिति । राक्षसानां रावणनात्कुमारामात्या दीनां गृहागृहम् । उद्यानानि च चचारेति योजना ॥ १६ ॥ गन्धादिमिः । पर्वहुतं पर्वसु हुतं होमो यस्मिन् तत, रावणस्याहिताग्नित्वात् ॥ १२-१४ ॥ रावणस्य समीपतः रावणभवनस्य समीपतः ॥ १५-२४ ॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy