________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
सीतामिति । चिरस्यापश्यन् चिरकालं निरीक्ष्याप्यपश्यन् । अचिरस्य अचिरेण, सपदीत्यर्थः । मन्दो मुग्ध इव दुःखाभिइतो बभूव । “सुग्धो मन्दो। विवर्णश्च" इति हलायुधः ॥ २७ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पञ्चमः सर्गः ॥५॥
सीतामपश्यन मनुजेश्वरस्य रामस्य पत्नी वदतां वरस्य । बभूव दुःखाभिहतश्विरस्य प्लवङ्गमो मन्द इवाचिरस्य ॥२७॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चमः सर्गः ॥५॥
स निकामं विमानेषु विषण्णः कामरूपधृक् । विचचार पुनर्लङ्कां लाघवेन समन्वितः ॥१॥ आससादाथ लक्ष्मी वान राक्षसेन्द्रनिवेशनम् । प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतम् ॥ २॥ रक्षितं राक्षसै|रैः सिंहैरिव महदनम् । समीक्षमाणो भवनं चकाशे कपिकुञ्जरः॥३॥ रूप्यकोपहितैश्चित्रस्तोरणेहेमभूषितैः । विचित्राभिश्च कक्ष्यामि
रैश्च रुचिरैर्वृतम् ॥४॥ गजास्थितैर्महामात्रैः शरैश्च विगतश्रमैः। उपस्थितमसंहाहयैः स्यन्दनयायिभिः ॥५॥ स निकाममित्यादि । विमानेषु विषण्णः विमानेषु सीतामदृष्ट्वा विपण्ण इत्यर्थः । लाघवेन वेगेन ॥१॥२॥ रामानु०-स इति । स लङ्कायामन्विष्टायामपि वैदेह्या अदर्शनेन विषण्णः। विचचार पुनर्लङ्कामिति सम्यक् । विचचार कपिलकामिति पाठेपि वैदेह्या अन्वेषणेन विषण्णस्य हनुमतोऽन्वेषणकर्तृत्वाभिधानात् पुनरन्वेषणं कृतवानित्यय मयों लभ्यते ॥ १॥ आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवशनम् इति । रावणभवनं प्रविष्टस्य हनुमतः पुनरपि गवणभवनप्राप्त्यभिधानान्मध्ये लङ्कान्वेषणाभिधानाच पूर्व गवणभवनं प्रविष्टो हनुमान् तदानीं जाग्रहुरक्षःसंकीर्णतया सीतान्चेषगावसरोऽयं न भवतीति मत्वा ततो निष्क्रम्य पुनर्लकां विचित्य राक्षसेन्द्रनिवेशनमाससादेत्यवगम्यते ॥२॥ रक्षितमिति । चकाशे जहर्षे त्यर्थः॥३॥रामानु-रक्षितमिति । समीक्षमाणो भवनं चकाश इति । भवनमितस्ततो निरीक्षमाणः सन्नर्कवर्णभवनप्राकारतेजःसंवन्धात् सप्रकाशोऽभूदित्यर्थः । चचार कपिकुचर इति वा पाठः ॥ ३ ॥ सूप्यकेत्यादि । रूप्यकोपहितः रजतनिर्मितैः । कक्ष्याभिः प्रकोष्ठैः । असंहाय अवध्यैः । स्यन्दनयायिभिः स्यन्दनवाहकैः॥४॥५॥ हेमरेखा स्वर्णशलाकाम् । क्षनप्ररूढां क्षता च सा महढाच ताम, अन्तर्वां बहिश्छादितामित्यर्थः । यद्वा क्षते व्रणे प्रहढा मलीना बाणरेखा बाणशकला मित्यर्थः ॥ २५ ॥ २६ ॥ सीतामिति । चिरस्यापश्यन् चिरमन्विष्यापश्यन दुःखाभिभूतः अचिरस्थ सद्य एव मन्द इव मूढ इव बभूव ॥ २७ ॥ इति श्रीमहेश्वरतीर्थ विरचितायो श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां पञ्चमः सर्गः॥५॥१॥२॥रक्षितमिति। चकाशे विस्मयादुल्ललासेत्यर्थः। चचार कपि कुन्नरः इति वा पाठः॥३॥ रूप्यकोपहितैः रजतनिर्मितैः। कक्ष्याभिः प्रकोष्ठैः। “कक्ष्या प्रकोठे हादेः" इत्यमरः॥४॥ महामात्रैः प्रधानः। “महामात्रा
For Private And Personal