SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir स्वर्गप्रकाशः स्वर्गतुल्यः, तद्वदानन्दावह इत्यर्थः । भगवान् श्रीमान् | " भगः श्रीकाममाहात्म्यवीर्ययत्रार्क कीर्तिषु " इत्यमरः । प्रदोषः गत इति शेषः ॥ ८ ॥ तन्त्रीति स्पष्टम् ॥ ९ ॥ मत्ताः मधुमदक्षीवाः । प्रमत्ताः प्रस्तुतकार्यविस्मारिणः । मत्तप्रमत्तजनयोगात् कुलान्यपि तथोच्यन्ते । कुलानि | गृहाणि । समाकुलानि समाकुलजनानि । वीरश्रिया वीरलक्ष्म्या । वीरः शते भिन्नं पदं वा कपिविशेषणम् ॥ १० ॥ परस्परं चेत्यादिश्लोकद्वयमेका न्वयम् । ददशैति सम्बध्यते । आक्षिपन्तीत्यादीनि शत्रन्तानि रक्षोविशेषणानि । आक्षिपन्ति अपहसन्ति । अधिनिक्षिपन्ति अन्योन्यस्योपरि दधन्ति । तन्त्रीस्वनाः कर्णसुखाः प्रवृत्ताः स्वपन्ति नार्यः पतिभिस्सुवृत्ताः । नक्तञ्चराश्चापि तथा प्रवृत्ता विहर्तुमत्यद्भुत रौद्रवृत्ताः ॥ ९ ॥ मत्तप्रमत्तानि समाकुलानि रथाश्वभद्रासनसङ्कुलानि । वीरश्रिया चापि समाकुलानि ददर्श धीमान स कपिः कुलानि ॥ १० ॥ परस्परं चाधिकमाक्षिपन्ति भुजांश्च पीनानधिनिक्षिपन्ति । मत्तप्रलापानधिकं क्षिपन्ति मत्तानि चान्योन्यमधिक्षिपन्ति ॥ ११ ॥ रक्षांसि वक्षांसि च विक्षिपन्ति गात्राणि कान्तासु च विक्षिपन्ति । रूपाणि चित्राणि च विक्षिपन्ति दृढानि चापानि च विक्षिपन्ति ॥ १२ ॥ ददर्श कान्ताश्च समालभन्त्यस्तथा Sपरास्तत्र पुनः स्वपन्त्यः । सुरूपवक्राश्च तथा हसन्त्यः क्रुद्धाः पराश्चापि विनिःश्वसन्त्यः ॥ १३ ॥ अधिविक्षिपन्ति अधिकं मुञ्चन्ति । अधिक्षिपन्ति भर्त्सयन्ति । विक्षिपन्ति विवृण्वन्ति । चित्राणि रूपाणि विविधान् वेषान् । विक्षिपन्ति वितन्वन्ति चापानि चापान् विक्षिपन्ति विस्फारयन्ति ॥ ११॥१२॥ ददर्शेति । समालभन्त्यः अङ्गरागेणानुलिम्पन्त्यः । समालपन्त्य इति च पाठः । सर्वत्र व्यत्ययेन स तथोक्तः । स्वर्गप्रकाशः सीतान्वेषणस्यानुकूलत्वेनानन्दहेतुतया प्रदोषकालस्य स्वर्गसदृशत्वोक्तिः, अत एव भगवान् पूज्यः, आदरणीय इति यावत् । अत्र विरराजेत्यनुषज्यते ॥ ८ ॥ ९ ॥ मत्तानि मदजनकद्रव्येण, अत एव प्रमत्तानि अन हितानि मत्तप्रमत्तजनयोगात् कुलानि भवनान्यपि तयोच्यन्ते । भद्रा गजाः ॥१०॥ परस्परं चेत्यादि श्लोकद्वयमेकं वाक्यम् । आक्षिपन्तीत्यादीनि शत्रन्तानि रक्षांसीत्यस्य विशेषणानि । आक्षिपन्ति आकर्षन्ति । भुजानधिनिक्षिपन्ति अन्यो न्यस्योपरि निक्षिपन्ति । मत्तप्रलापानधिकं क्षिपन्ति मुञ्चन्ति भर्त्सयन्तीत्यर्थः । अन्योन्यमधिक्षिपन्ति तिरस्कुर्वन्ति । रूपाणि चित्राणि च विक्षिपन्ति विविधान् वेषान्विदधति । चापानि विक्षिपन्ति विष्फारयन्ति । वक्षसि विक्षिपन्ति विवृण्वन्ति । एतादृशरक्षांसि कपिर्ददर्शति पूर्वक्रियया सम्बन्धः ॥ ११॥ १२ ॥ ददर्शेति । For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy