________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
टी..का स०३
वा.रा.भू.
अभिगुप्ता समावृतेत्यर्थः । अतो न रक्षितेत्यनेन पुनरुक्तिः ॥ २४-३३ ॥ रामानु:-न शम्पमिति । लिङ्ग सामान्ये नपुंसकम् । तथा चोक्तम् भगवता भाष्यकारेण॥२८॥ "श्वमांसेनापि शक्यं क्षुदपहन्तुम् " इति । रावणवलैः समन्ततः अभिगुप्ता समन्ततः संवृता अत एव रक्षिता ॥ २४॥ अहमिति । आज्ञाप्रतीक्षा आज्ञानुवर्तिनी ॥ २८ ॥ अहं हि नगरी
लक्षा स्वयमेव प्लवङ्गमेति । स्वयमेव सर्वतः सर्व परिरक्षामीति संपन्धः ॥ ३०॥ द्रक्ष्यामीति । इत्यर्थम् एतदर्थम् ॥ ३३ ॥ उपवनानि गृहोद्यानानि । काननानि शून्या
अथ तामब्रवीद्रीरो हनूमानग्रतः स्थिताम् । कथयिष्यामि ते तत्त्वं यन्मां त्वं परिपृच्छसि ॥ २५॥ का त्वं विरूप नयना पुरद्वारेऽवतिष्ठसि । किमर्थं चापि मां रुद्ध्वा निर्भर्त्सयसि दारुणा ॥ २६॥ हनुमद्वचनं श्रुत्वा लङ्का सा कामरूपिणी। उवाच वचनं क्रुद्धा परुषं पवनात्मजम् ॥ २७॥ अहं राक्षसराजस्य रावणस्य महात्मनः। आज्ञा प्रतीक्षा दुर्धर्षा रक्षामि नगरीमिमाम् ॥ २८॥ न शक्या मामवज्ञाय प्रवेष्टुं नगरी त्वया । अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया॥२९॥ अहं हि नगरीलङ्का स्वयमेव प्लवङ्गमा सर्वतः परिरक्षामि ह्येतत्ते कथितं मया ॥३०॥ लङ्काया वचनं श्रुत्वा हनुमान मारुतात्मजः। यत्नवान स हरि श्रेष्ठः स्थितः शैल इवापरः ॥३१॥ स तां स्त्रीरूप विकृतां दृष्ट्वा वानरपुङ्गवः। आबभाषेऽथ मेधावी सत्त्ववान् प्लवगर्षभः ॥३२॥ द्रक्ष्यामि नगरी लङ्का साट्टप्राकार तोरणाम् । इत्यर्थमिह संप्राप्तः परं कौतूहलं हि मे ॥ ३३ ॥ वनान्युपवनानीह लंकायाः काननानि च । सर्वतो गृह मुख्यानि द्रष्टुमागमनं हि मे ॥ ३४ ॥ तस्य तद्वचनं श्रुत्वा लंका सा कामरूपिणी । भूय एव पुनर्वाक्यं बभाषे
परुषाक्षरम् ॥ ३५॥ मामनिर्जित्य दुर्बुद्धे राक्षसेश्वरपालिताम् । न शक्यमद्य ते द्रष्टुं पुरीयं वानराधम ॥ ३६॥ करण्यानि ॥ ३४ ॥ भूयः अतिशयेन परुपाक्षरमित्यन्वयः ॥ ३५ ॥ मामिति । शक्यामेत्येतदव्ययम् । तदाह कालिदासः-" शक्यमरविन्दसुरभिः
कणवाही मालिनीतरङ्गाणाम् । अङ्गैरनङ्गतप्तरविरलमालिङ्गितुं पवनः ॥” इति । पुरीरूपं वस्तु शक्यमिति शक्यपुर्योस्सामानाधिकरण्यं वा ॥ ३६॥ 11 अहमिति । आज्ञाप्रतीक्षा आज्ञानुवर्तिनी ॥ २८-३३ ॥ वनानीति । उपवनानि कृत्रिमवनानि । वनानि क्षुद्राणि ॥ ३४ ॥ भूयः भृशं परुषाक्षरं वाक्यं पुनर्वभाषेप
For Private And Personal