SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir बा.रा.भ. ॥१६॥ रससा तोरणानि रक्षागृहदारस्थतोरणानि ॥ ५५ ॥ अचिन्त्येति । विषण्णः हपश्चेति । अचिन्त्या दुष्प्रवेशेति च विषण्णः, यतोऽद्भुताकारा अतो विस्मयनी यतया दृष्टः ॥ ५५ ॥ स इति । पूर्वश्लोकेनायमेकान्वयः । सुधाधवलनिनोन्नतविमानाकारभवनमालिनीमित्यर्थः ॥५६॥ रामानु०-स पाण्डुरे - टी.सु.का. त्यस्य दृष्ट्येति पूर्वेण सम्बन्धः । पाण्डुरोद्विदविमानमालिनी सुधाधौतोन्नतसप्तभूमगृहमालिनीम् । “ विमानोऽस्त्री देवयाने सप्तभूमे च सद्मनि " इति वैजपन्ती ॥ ५५ ॥ इदानी चन्द्रो स. २ अचिन्त्यागद्धताकारां दृष्ट्वा लङ्का महाकपिः । आसीद्विषण्णो हृष्टश्च वैदेह्या दर्शनोत्सुकः ॥५५॥ स पाण्डुरो द्विद्धविमानमालिनी महार्हजाम्बूनदजालतोरणाम् । यशस्विनीं रावणबाहुपालितां क्षपाचरैर्भीमबलैः समावृताम् ॥५६॥ चन्द्रोऽपि साचिव्यमिवास्य कुर्वस्तारागणैर्मध्यगतो विराजन् ।ज्योत्स्नावितानेन वितत्य लोकमुत्तिष्ठते नैकसहस्ररश्मिः॥५७॥ शङ्खप्रभं क्षीरमृणालवर्णमुद्गच्छमानं व्यवभासमानम् । ददर्श चन्द्रंस हरिप्रवीरः पोप्लूय मानं सरसीव हंसम् ॥५८॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्वितीयः सर्गः ॥२॥ Mदयकाल इत्याह-चन्द्रोपीति । मध्यगतः सन्निधानात्तारागणमध्यगतः । तारागणैरिति सहयोगे तृतीया । ज्योत्स्रावितानेन लोकं वितत्य व्याप्य उत्ति टते आविर्भवति स्म । “उदोऽनूर्ध्वकर्मणि" इत्यात्मनेपदम् ॥५७॥१८॥रामानु०-चन्द्र इति । चन्द्रोपि नैकसहस्त्ररश्मिः ज्योत्स्नावितानेन लोक वितत्य अस्य । साचिव्यं कुर्वन्निव विराजन मध्यगतः तारागणः सह उत्तियते प्रादुरभूदित्यन्वयः । अत्र तिष्ठतेः परस्मैपदित्वात् “उदोन कर्मणि" इत्यात्मनेपदम् । नैकसहनराश्मिरित्पत्र नमर्थस्य । नशब्दस्य सुपसुषेति समासः । सागरमैनाकदिवाकगदिवचन्द्रापि साचिव्यं कुर्वन् प्रादुरभूदित्यपिशब्देनावगम्यते ॥ ५७ ॥ शङ्खप्रभामिति । पोलूयमानम् गड्डीयमानम् ॥ ५८ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने द्वितीयः सर्गः ॥२॥ तोरणानि रक्षोगृहस्थद्वारतोरणानि ॥ ५४ ॥ विषण्णः लङ्काया दुर्धर्षन्वाद्विषण्णः, अत्यद्भुतत्व त हृष्टश्च ॥१५॥ पाण्डुरोद्विद्धविमानमालिनी धवलोन्नतसप्तभौम प्रासादपतिमतीम् ॥ ५६ ॥ ज्योत्स्नावितानेन लोकाधिनत्य विस्तारीकृत्य अस्य हनूमतः भैनाकसिन्धुवत साचिव्यं कुर्वन्नित्र कुर्वन्नेव विराजन् मध्यगतः तारागणमध्यगतः तारागणेः सह उत्तिष्ठते प्रादुरदित्यन्वयः ।। ५७ ।। पोप्लूयमानं भृशं प्लवमानम् ॥ ५८ ॥ इति श्रीमहेश्वरतीर्थविरचितार्या श्रीरामायणतत्त्व दीपिकाख्यायां सुन्दरकाण्डव्याख्यायां द्वितीयः सर्गः ॥२॥ ॥१६॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy