________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
परिशेषाद्रात्रौ हस्वरूपेणैव प्रवेष्टव्यमित्याह तदद्दमिति ॥ ४३-४८ ॥ सूर्य इति । स्वेन रूपेण (पृ) वृषदंशकमात्रः बिडालप्रमाणः ॥४९॥ प्रदोषकाल इति । प्रविवेश प्रवेष्टुमुपक्रान्तः, चतुर्थे सर्गे प्रवेशस्य वक्ष्यमाणत्वात् । लङ्गादर्शनं तु त्रिकूटदर्शनस्थित्या ॥ ५० ॥ प्रासादेत्यादि । काञ्चनराजतैः इति संचिन्त्य हुनुमान सूर्यस्यास्तमयं कपिः । आचकांक्षे तदा वीरो वैदेह्या दर्शनोत्सुकः ॥ ४८ ॥ सूर्ये चास्तं गते रात्रौ देहं संक्षिप्य मारुतिः । वृषदंशकमात्रः सन् बभूवाद्भुतदर्शनः ॥ ४९ ॥ प्रदोषकाले हनुमांस्तूर्णमुत्प्लुत्य वीर्यवान् । प्रविवेश पुरीं रम्यां सुविभक्तमहापथाम् ॥ ५० ॥ प्रासादमालाविततां स्तम्भैः काञ्चनराजतैः । शात कुम्भमयैर्जालैर्गन्धर्वनगरोपमाम् ॥ ५१ ॥ सप्तभूमाष्टभूमैश्च स ददर्श महापुरीम् । तलैः स्फटिकसंकीर्णैः कार्त स्वरविभूषितैः ॥ ५२ ॥ वैडूर्यमणिचित्रैश्च मुक्ताजालविभूषितैः । तलैः शुशुभिरे तानि भवनान्यत्र रक्षसाम् ॥ ५३ ॥ काञ्चनानि विचित्राणि तोरणानि च रक्षसाम् । लङ्कामुद्योतयामासुः सर्वतः समलंकृताम् ॥ ५४ ॥ स्तम्भैः शातकुम्भमयैर्जालैश्च उपलक्षिताम् । गन्धर्वनगरोपमामिति । गन्धर्वनगरं नाम नानारत्नमयगोपुरप्रासादादियुक्तनगरादिवद्भासमानमभ्रचित्रम् तद्वदाश्वर्यावहामित्यर्थः । यथोक्तम् - " अनेकरत्नाकृति खे विराजते पुरं पताकाध्वजतोरणान्वितम् । यदा तदा इस्तिमनुष्यवाजिनां पिबत्यसृग्भूरि रणे वसुन्धरा ॥” इति ॥ ५१ ॥ सप्तभूमाष्टभूमैश्वेति । भूमिशब्देन आसनशयनादियोग्यं तलमुच्यते । सप्त भूमयो येषां ते सप्तभूमाः । “कृष्णोदक पाण्डुसंख्यापूर्वाया भूमेरजिष्यते" इत्यच् समासान्तः । एवमष्टभूमाः । सप्तभूमादिशब्देन तादृशाः प्रासादविशेषा उच्यन्ते । यद्वा प्रासादैरिति शेषः तैरुपलक्षिताम् ॥५२-५४ ॥ रामानु० - प्रासादेत्यादि । अभ्रंलिहत्वातिविचित्रत्वाभ्यां गन्धर्वनगरौपम्यम् । स्फटिकसंकीर्णैः कार्तस्वरविभूषितैश्च तलैरुपलक्षितैः । सप्तभौमाष्टभोमाः, भूमिपु भवन्तीति भौमानि स्थलानि, सप्त भौमानि येषां ते सप्तभीमाः एवमष्टभौमाः, सप्तभौमाश्वाष्टभोमाञ्च तैः प्रसादैरिति शेषः । तैरुपलक्षितां पुरीं ददर्शेति योजना ॥ ५१ ॥ ५२ ॥ काञ्चनानीति वानररूपेण ॥। ४६-४८ ॥ पृषदंशकमात्रः, पृषान मूषिकान दशतीति पृषदंशः मार्जारः । "ओतुर्बिडालो मार्जारः पृषदंशक आसुभुक् " इत्यमरः ॥ ४९ ॥ प्रदोषे प्रविवेश प्रवेष्टुमुपक्रान्तः, 'अद्वारेण महाबाहुः प्राकारमभिपुप्लुवे ' इति चतुर्थे सर्गे साक्षात्मवेशस्य वक्ष्यमाणत्वात् ॥ ५०॥ प्रासादेति । स्तम्भादिभिरुपलक्षिताम् । भूमिषु भवन्तीति भौमानि तलानि, सप्त भौमानि येषां ते तथा । एवमष्टभीमाः तैः प्रासादैरिति शेषः । तैरुपलक्षितां पुरीं स ददर्शेति योजना ॥५१-५३॥ रक्षसां
For Private And Personal