________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyarmandir
भा.र.भ ॥१५॥
न केवलं कार्यहानिः किन्तु स्वाम्यादीनां बुद्धिशून्यतापि स्पादित्याह-अयति । अत्रापि विडवं दूतमासाद्येत्यनुवर्तते । अर्थानान्तरे टी.सं.का. अर्थानर्थयोः प्रयोजनसाधनयोः कार्याकार्ययोः अन्तरे विषयें, निश्चिता राज्ञा सचिवैश्व निर्णीता बुद्धिः विक दूतमासाद्य न शोभते, अनर्थ
अर्थानान्तरे बुद्धिनिश्चितापि न शोभते । घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ॥४०॥ न विनश्येत्कथं कार्य वैकव्यं न कथं भवेत् । लङ्घन च समुद्रस्य कथं नुन वृथा भवेत् ॥४१॥ मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः । भवेद्यर्थमिदं कार्य रावणानर्थमिच्छतः॥४२॥ नहि शक्य क्वचित् स्थातुमविज्ञातेन राक्षसैः ।
अपि राक्षसरूपेण किमुतान्येन केनचित् ॥४३॥ वायुरप्यत्र न ज्ञातश्चरेदिति मतिर्मम । नास्त्यविदितं किंचिद्राक्षसानां बलीयसाम् ॥ ४४ ॥ इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः। विनाशमुपयास्यामि भर्तुरर्थश्च हीयते ॥४५॥ तदहं स्वेन रूपेण रजन्यों द्वस्वतां गतः । लङ्कामधिपतिष्यामि राघवस्यार्थसिद्धये ॥ ४६॥
रावणस्य पुरी रात्रौ प्रविश्य सुदुरासदाम् । विचिन्वन् भवनं सर्व द्रक्ष्यामि जनकात्मजाम् ॥४७॥ कारिणी भवतीत्यर्थः । इदमेव समर्थयते पातयन्तीति ॥४०॥ प्रागुक्तदोषाः स्वस्मिन्कथं न स्युरिति चिन्तयति-न विनश्यदिति । कार्य रामकार्यम् ।। कथं केनोपायेन । न विनश्येत् किमद्यापराह एव लङ्का प्रवेष्टव्या उत रात्रौ, किमनेनैव महता रूपेण प्रवेष्टव्या उत ह्रस्वेन रूपेणेत्यर्थः । वैक्चव्यं । ममापाण्डित्यं कथं न भवेत् ॥४१॥ अपराहे प्रवेशदोषमाइ-मयीति॥४२॥महता रूपेण प्रवेशं निराचष्टे-नहीति । स्वेन रूपेण स्वाभाविकमहता रूपेण।। किश्च न केवलं कार्यहानिः किन्तु स्वाम्यादीनां बुद्धिशून्यतापि स्यादित्याह-अति । अर्थानान्तरे कार्याकार्यविषये । निश्चितापि स्वामिना सचिवेस्सह शानिश्चितापि बुद्धिः विक्रवं दूतमासाद्येत्यनुकर्षः, न शोभते अकिवित्करा भवतीत्यर्थः । तस्मात् इतदोषादेव राज्ञा कार्यहानिरित्याह घातयन्ति हीति ॥ ४०॥4॥ १५॥ प्रागुक्तदोषाः स्वस्मिन् यथा न स्युः तथा कर्तव्यमित्याह-नेति । कार्य स्वामिकार्यम् । वैकश्यं बुद्धिहीनता । वैवष्यमित्यादौ स्वस्येति शेषः । तथा कर्तव्यमिति श्लोकशेषः ॥४१॥ प्रस्तुतकार्याविरोधाय यावदस्तमयं स्वगोपनमुचितमिति इदि निधायाह-मयि दृष्ट इत्यादिना ॥ ४२-४५ ॥ स्वेन रूपेण ।
For Private And Personal