________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
यिष्यामीत्यन्वयः ॥३१॥ तत इति ।चिन्तयामास, वैदेहीदर्शनोपायमिति शेषः ॥ ३२-३४ ॥ लक्ष्यालक्ष्येति । लक्ष्यशरीरत्वे राक्षसा गृहीयुः ।। अलक्ष्यशरीरत्वे सर्वा लङ्का न विचेतुं शक्या । कृत्यं साधयितुं प्रवेष्टुं कृत्यसाधनाय प्रवेष्टम् प्राप्तकालं युक्तम् ॥ ३५॥ तामिति । विनिश्चित्य
ततः स चिन्तयामास मुहूर्त कपिकुञ्जरः । गिरिशृङ्गे स्थितस्तस्मिन् रामस्याभ्युदये रतः॥ ३२॥ अनेन रूपेण मया न शक्या रक्षसां पुरी । प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः ॥३३॥ उग्रौजसो महावीर्या बलवन्तश्च राक्षसाः। वञ्चनीया मया सर्वे जानकी परिमार्गता ॥ ३४ ॥ लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्कापुरीमया । प्रवेष्टुं प्राप्तकालं मे कृत्यं साधयितुं महत् ॥३५॥ तां पुरी तादृशीं दृष्ट्वा दुराधर्षा सुरासुरैः। हनुमाश्चिन्तयामास विनिःश्वस्य मुहुर्मुहुः ॥३६ ॥ केनोपायेन पश्येयं मैथिली जनकात्मजाम् । अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना ॥३७॥ न विनश्यत् कथं कार्य रामस्य विदितात्मनः । एकामेकश्च पश्येयं रहिते जनकात्मजाम् ॥ ३८॥ भूताश्चार्था विपद्यन्ते
देशकालविरोधिताः । विक्लवं दूतमासाद्य तमः मूर्योदये यथा ॥ ३९॥ सीतान्वेषणप्रकारं विनिश्चित्य, मुहुर्मुहुस्तमेव चिन्तयामासेत्यर्थः ॥३६॥ ३७॥ रामानु०-तामिति । विनिःश्वस्य मुहुर्मुहुरित्यनेन समुद्रलङ्घनादपि लङ्काप्रवेशस्य । दुष्करत्वं द्योत्यते ॥ ३६ ॥ न विनश्यदिति । एकश्च पश्येयमिति । अत्रापि कथमित्यनुषञ्जनीयम् । रहिते एकान्ते ॥ ३८॥ रामानु०-रदिने जनरहिते ॥३८॥ पण्डितेन मुहुर्मुहुर्विचार्य कार्याणि कर्तव्यानि नतु पण्डितमानिना सकृद्विचार्य कर्तव्यानि । तथा सति दोषः स्यादित्याह-भूताश्चेति । भूताश्चार्थाः सम्यगुपायप्रयोगानिष्पन्नप्राया अप्यर्थाः। विक्लवम् अधीरम्, अविमृश्यकारिणम् । दूतमासाद्य देशकालविरोधितास्सन्तः। सूर्योदये तमो यथा तम इव । ततस्याविमृश्यकारित्वेन सद्य एव विपद्यन्ते नश्यन्तीत्यर्थः ॥ ३९ ॥ यिष्यामीत्यर्थः ॥३१-३४॥ लक्ष्यालक्ष्येण रूपेण सूक्ष्मशरीरेण महत्कृत्यं सीतान्वेषणरूपं प्राप्तका लम् उचितमिति चिन्तयामासेति पूर्वेण सम्बन्धः ॥३५॥ तामिति तो दृष्टा चिन्तयामासेति सम्बन्धः । चिन्ताप्रकारमेवाह-केनेत्यादिना । तां पुरीमित्यादेः विचिन्वन्भवनमित्यन्तस्य ग्रन्थस्य हनुमान चिन्तयामास इत्यनेन सम्बन्धः ॥३६-३८॥ भूतावार्थाः निष्पन्नान्यपि प्रयोजनानि । विक्रवम् अविवकिनम् आसाद्य देशकालविरोषितास्सन्तः विपद्यन्ते नश्यन्तीति सम्बन्धः ॥३९॥१
For Private And Personal