SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir अस्मिन् सर्गे साकाधिकद्विशतश्लोकाः ॥२०१॥ इति श्रीगोविन्द श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने प्रथमः सर्गः॥१॥ स सागरमित्यादि ॥१॥रामानु०-त्रिकूटशिखरे लङ्कां स्थितामिति पाठः ॥ १॥२॥३॥ समुद्रलड़ने कुतो ग्लानि नाध्यगच्छदित्यत्राह-शतानीति ॥४॥ रामानु०-समुद्रलङ्गने कुतः श्रमं नाध्यगच्छत्तत्राह-शतान्यहमिति । अहं सुबहून्यपि योजनानां शतानि क्रमेयं शतयोजनसंख्याकं सागरस्यान्तं किं पुनरिति, अमन्यवेति शेषः ॥४॥ स सागरं दानवपन्नगायुतं बलेन विक्रम्य महोर्मिमालिनम् । निपत्य तीरे च महोदधेस्तदा ददर्श लङ्काममरावती मिव ॥२०१॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे प्रथमः सर्गः ॥१॥ स सागरमनाधृष्यमतिक्रम्य महाबलः । त्रिकूटशिखरे लङ्कां स्थितां स्वस्थो ददर्श ह॥१॥ ततः पादपमुक्तेन पुष्पवर्षेणं वीर्यवान् । अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयो यथा ॥२॥ योजनानां शतं श्रीमांस्तीप्युितम विक्रमः । अनिश्वसन कपिस्तत्र न ग्लानिमधिगच्छति ॥ ३॥ शतान्यहं योजनानां क्रमेयं सुबहून्यपि । किं पुनः सागरस्यान्तं सङ्ख्यातं शतयोजनम् ॥ ४॥ स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः । जगाम वेगवान् लङ्का लवयित्वा महोदधिम् ॥५॥ शादलानि च नीलानि गन्धवन्ति वनानि च । गण्डवन्ति च मध्येन जगाम नगवन्ति च ॥६॥ शैलांश्च तरुसंछन्नान वनराजीश्च पुष्पिताः । अभिचक्राम तेजस्वी हनुमान प्लवगर्षभः ॥७॥ ॥५॥शादलानीति । गण्डवन्ति स्थूलोपलवन्ति । नामैकदेशे नामग्रहणेन गण्डशब्देन गण्डशैल उच्यते ॥ ६॥७॥ रामानु०-शादलानीति । वनानि पर्वतस्थवनानि । गण्डवन्ति स्थूलपाषाणवन्ति । मध्येन मध्यमार्गेण । नगवन्ति प्रशस्तवृक्षयुक्तानि ॥६॥ शैलानिति । अत्र शैलशब्दः शृङ्गपरः लम्बाख्यागरेरुपरितनस्योच्यमानत्वात् ॥ ७॥ २०१॥ इति श्रीमहेश्वरतीर्थविरचितार्या श्रीरामायणतत्वदीपिकाख्यायो सुन्दरकाण्डव्याख्यायां प्रथमः सर्गः ॥१॥॥१॥ तत इति । पुष्पमयो यथा पुष्पमयपि रिवेत्यर्थः ॥२॥ अनिश्वसन श्रमनिबन्धनदीर्घनिश्वासममुश्चन । तत्र लङ्घननिमिते। नाधिगच्छति नाध्यगच्छत् ॥ ३॥ अहं सुबहून्यपि योजनानां शतानि क्रमेयं शतयोजनं यथा तथा सङ्ख्यातं सागरस्यान्तं किं पुनरियमन्यतेति शेषः ॥ ४ ॥५॥ गण्डवन्ति स्थूलपागणवन्ति । नगवन्ति क्षुद्रगिरिवन्ति । शादलानि For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy