________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
पश्यन् परामृशन् ॥ ६॥ ६२॥ गहने पर्णगूढप्रदेशे। 'पर्णपने निलीनः' इत्यधस्तादप्युक्तेः॥६३-६५ ॥रामानु०-परिरभ्य, वितत्रासेति शेषः॥ ६५॥ परमोदिनाम् अतीवोद्धान्तहृदयाम् । ततस्ततः वीक्षमाणां नानादिक्षु वीक्षमाणाम् ।त्राणमित्यनुषज्यते ॥६६॥ आक्छिराः अवनतमूर्दा । प्रपतितः,
तां दृष्ट्वा तादृशीं नारीरामपत्नी यशस्विनीम् । तत्रैव शिंशुपावृक्षे पश्यन्नहमवस्थितः ॥६१॥ ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम्। शृणोम्यधिकगम्भीरं रावणस्यनिवेशने ॥६२॥ ततोऽहं परमोदिन्नः स्वं रूपं प्रतिसंहरन् । अहं तु शिशुपावृक्षे पक्षीव गहने स्थितः ॥६३ ॥ ततो रावणदाराश्च रावणश्च महाबलः । तं देशं समनुप्राप्ता यत्र सीताऽभवत् स्थिता ॥६४॥ तद् दृष्ट्वाऽथ वरारोहा सीता रक्षोमहाबलम् । सङ्कुच्योरूस्तनौ पीनौ बाहुभ्यां परिरभ्य च॥६५॥ वित्रस्तां परमोद्विग्नां वीक्षमाणां ततस्ततः। त्राणं किंचिदपश्यन्तीं वेपमानां तपस्विनीम् ॥ ६६ ॥ तामुवाच दशग्रीवः सीतां परमदुःखिताम् । अवाक्छिराः प्रपतितो बहुमन्यस्व मामिति ॥ ६७ ॥ यदि चेत्त्वं तु दन्मिां नाभिनन्दसि गर्विते । द्वौ मासावन्तरं सीते पास्यामि रुधिरं तव ॥६८॥ एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः । उवाच परमक्रुद्धा सीता वचनमुत्तमम् ॥ ६९॥राक्षसाधम रामस्य भार्याममिततेजसः । इक्ष्वाकुकुल नाथस्य स्नुषां दशरथस्य च । अवाच्यं वदतो जिह्वा कथं न पतिता तव ॥ ७० ॥ किंचिदीर्यं तवानार्य यो मां
भर्तुरसन्निधौ । अपहृत्यागतः पाप तेनादृष्टो महात्मना ॥ ७१ ॥ भूमाविति शेषः॥६७॥ द्वौ मासौ अन्तरम् अवधिः । ततः पास्यामीति योज्यम् ॥६८-७० ॥ किंचिद्रीय कुत इत्यत्राह-यो मामिति । भर्तुरसन्निधौ । निश्चया मरणकृतनिश्चयेत्यर्थः ॥ ५९-६१ ॥ शृणोमि श्रुतवान् । रावणस्य निवेशने तत्समीपे । यद्वा निवेशने सीतासमीपप्रवेशनकाले ॥६२ ॥ गहने स्थितः अत्र गहनशब्देन पर्णसंहतिगूढप्रदेश उच्यते ॥ १३॥ परिरभ्य, वितत्रासेति शेषः ॥ ६४-७०॥ तदसन्निधौ अपहत्य तेनादृष्ट इति लङ्कामागतः अन्यथा तदेव
For Private And Personal