________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
भा.रा.भू. योगे द्वितीया । तत्र लङ्कायाम् । विचिन्वन् अनन्तरं रावणान्तःपुरमपि गतः सन् तुमध्यमा नापश्यम् ॥५१॥१२॥ रामानु०-तत्रेति । सर्वरात्राटी.सं.को. १५८॥ सर्वा रात्रिम् । “ अहःसर्वेकदेशसंख्यातपुण्याच्च रात्रेः " इत्यन्पत्ययः । “ कालाध्वनोरत्यन्तसंयोगे” इति द्वितीया । तत्राई मध्यरात्रे स्विति पाठः साधुः ॥ ५१ ॥ तत इति । उपलक्षये।
ततः सीतामपश्यंस्तु रावणस्य निवेशने । शोकसागरमासाद्य न पारमुपलक्षये ॥५२॥ शोचता च मया दृष्टं प्राकारेण समावृतम् । काञ्चनेन विकृष्टेन गृहोपवनमुत्तमम् ॥५३॥ स प्राकारमवप्लुत्य पश्यामि बहुपादपम् ॥५४॥ अशोकवनिकामध्ये शिशुपापादपो महान् । तमारुह्य च पश्यामि काञ्चनं कदलीवनम् ॥५५॥ अदुरे शिशुपावृक्षात् पश्यामि वरवर्णिनीम् । श्यामां कमलपत्राक्षीमुपवासकृशाननाम् ॥५६॥ तदेकवासःसंवीता रजोध्वस्तशिरोरुहाम् । शोकसन्तापदीनाङ्गी सीता भर्तृहिते स्थिताम् ॥ १७॥ राक्षसीभिर्विरूपाभिः क्रूराभि रभिसंवृताम् । मांसशोणितभक्षाभिर्व्याघ्रीभिर्हरिणीमिव ॥५८॥ सामया राक्षसीमध्ये तय॑माना मुहुर्मुहुः । एकवेणीधरा दीना भर्तृचिन्तापरायणा ॥ ५९॥ भूमिशय्या विवर्णाङ्गी पद्मिनीव हिमागमे । रावणादिनिवृत्तार्था
मर्तव्यकृतनिश्चया। कथंचिन्मृगशावाक्षी तूर्णमासादिता मया ॥६॥ उपालक्षयम् ॥ १२ ॥ विकृप्टेन विप्रकृष्टेन । अतिदीर्घेणेति यावत् ॥५३ ॥ बहुपादपम् अनेकपादपप्रमाणमिति प्राकारविशेषणम् ॥ ५४॥ शिंशुपा पादपः, अस्तीति शेषः ॥ ५५॥ शिशुपावृक्षात् शिंशुपावृक्षस्य । श्यामा यौवनमध्यस्थाम् । तदेकवासस्संवीतां येन वाससा हृता तेनेकवाससा संवीताम् । यद्वा तेन तत्कालदृष्टेन पूर्वदृष्टेन एकेन वाससा संवीताम्, वेषान्तरनिस्स्पृहामित्यर्थः। मानसिकत्वकायिकत्वभेदेन शोकसन्तापयो)दः। ॥५६-५८॥ सामयेति । आमयः खेदः तेन सह वर्तत इति सामया । मर्तव्ये मरणे । “कृत्यल्युटो बहुलम्" इति साधुः॥५९॥ ६०॥ उपलक्षये उपालक्षयम् ॥ ५२ ॥ विकृष्टेन विप्रकृष्टेन, अतिदीर्घेणेति यावत् ॥ ५३ ॥ बहुपादपं गृहोपवनं गृहारामं इष्टमिति सम्बन्धः ॥ ५४-५६ ॥ तदेकवास
संवीता तेन तत्कालदृष्टेन पूर्वधृतेनैव वाससा संवीताम् ॥ ५७ ॥ राक्षसीभिरिति । व्याघ्रीपरित्तो हरिणीमिव तामपश्यमिति सम्बन्धः । राक्षसीमध्ये ताभिरेव तिळमाना सदुःखा मया कथञ्चिदासादितेत्यन्वयः ॥ ५८ ॥ सामया आमयसहिता, दुःखसहितेत्यर्थः, अतस्तूर्णमासादिता मयेत्यनेन न पुनरुक्तिः । मर्तव्यकृत
॥१५८
For Private And Personal