________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
दक्षिणात् दक्षिणपारात् । प्रार्थयन् गन्तुमिति शेषः ॥ २३ ॥ २४ ॥ स इरिश इति सम्बन्धः । पितृतुल्यवेगवत्त्वं सूचयति मारुतस्येति ॥ २५ ॥ तैर्भूतैः तत्रत्यजन्तुभिः || २६ || रुग्णाः शीर्णा इति यावत् । शक्रायुधहताः वज्रहृताः ॥ २७ ॥ नभो भिन्दन् भिन्दन्निव । महत्तायां स तमारुह्य शैलेन्द्रं व्यवर्धत महाकपिः । दक्षिणादुत्तरं पारं प्रार्थयन लवणाम्भसः ॥ २३ ॥ अधिरुह्य ततो वीरः पर्वतं पवनात्मजः । ददर्श सागरं भीमं मीनोरगनिषेवितम् ॥ २४ ॥ स मारुत इवाकाशं मारुतस्यात्मसम्भवः । प्रपेदे हरिशार्दूलो दक्षिणादुत्तरां दिशम् ॥ २५ ॥ स तदा पीडितस्तेन कपिना पर्वतोत्तमः । ररास सह तैर्भूतैः प्रविशन वसुधातलम् । कम्पमानैश्च शिखरैः पतद्भिरपि च द्रुमैः ॥ २६ ॥ तस्योरुवेगोन्मथिताः पादपाः पुष्प शालिनः । निपेतुर्भूतले रुग्णाः शक्रायुधहता इव ॥ २७ ॥ कन्दरान्तरसंस्थानां पीडितानां महौजसाम् । सिंहानां निनदो भीमो नमो भिन्दन् स शुश्रुवे ॥ २८ ॥ स्रस्तव्याविना व्याकुली कृतभूषणाः । विद्याधर्यः समुत्पेतुः सहसा धरणीधरात् ॥ २९ ॥ अतिप्रमाणा वलिनो दीप्तजिह्वा महाविषाः । निपीडितशिरोग्रीवा व्यवेष्टन्त महा हयः ॥ ३० ॥ किन्नरोरगगन्धर्वयक्षविद्याधरास्तदा । पीडितं तं नगवरं त्यक्त्वा गगनमास्थिताः ॥ ३१ ॥ स च भूमिधरः श्रीमान बलिना तेन पीडितः । सशिखरोदयः प्रविवेश रसातलम् ॥ ३२ ॥ दशयोजनविस्तार त्रिंशद्योजनमुच्छ्रितः । धरण्यां समतां यातः स बभूव धराधरः ॥ ३३ ॥
तात्पर्यम् ॥ २८ ॥ स्रस्तानि व्याविद्धानि च वसनानि यासां ताः स्त्रस्तव्याविद्भवसनाः ॥ २९ ॥ निपीडितशिरोग्रीवाः, शिथिलपतितशिलात लैरिति | शेषः ॥ ३० ॥ ३१ ॥ सवृक्षशिखरोदयः सवृक्षैः शिखरैः उदयः श्रेष्ठः ॥ ३२ ॥ ३३ ॥
त्रस्तव्याविद्धवसना इति पाठः । त्रस्तेन त्रासेन व्याविद्धानि व्यत्यस्तानि वसनानि यासां ताः ॥ २९ ॥ व्यवेष्टन्त कुण्डलीकृतशरीरा अजायन्त । व्यचेष्टन्तेति पाठे पीडया अलुठन्नित्यर्थः ॥ ३० ॥ ३१ ॥ सवृक्षशिखरोदयः सवृक्षैः शिखरैः उदग्रः उन्नतः ॥ ३२ ॥ ३३ ॥
For Private And Personal