________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
ली तस्य सा तदाऽऽसान्महालीत्वं शीतो भव हनूमतसम्पन्नां तत्समा
तस्य हनुमतः । मङ्गलाभिमुखी अदाहपरा । प्रयता शुद्धिमती । “पवित्रः प्रयतः पूतः" इत्यमरः ॥२७॥ यद्यस्तीति । पतिशुश्रूषादिपदं तत्फलपरम् ।। शीतो भव, तेनेति शेषः। एकपत्नीत्वं पातिव्रत्यम् ॥२८॥ किंचिदनुकोश इति समस्तं पदम् । तस्य रामस्य । भाग्यशेषः इदानी निरन्तरदुःखानुभवात् ||
मङ्गलाभिमुखी तस्य सा तदाऽऽसीन्महाकपेः। उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् ॥२७॥ यद्यस्ति पति शुश्रूषा यद्यस्ति चरितं तपः। यदि चास्त्येकपत्नीत्वं शीतो भव हनूमतः ॥२८॥ यदि किंचिदनुक्रोशस्तस्य मय्यस्ति धीमतः। यदि वा भाग्यशेषो मे शीतोभव हनूमतः ॥२९॥ यदि मां वृत्तसम्पन्नां तत्समागमलालसाम् । स विजानाति धर्मात्मा शीतो भव हनूमतः ॥ ३०॥ यदि मां तारयेदार्यः सुग्रीवः सत्यसङ्गरः। अस्माहुःखाम्बु संरोधाच्छीतोभव हनूमतः॥३१॥ ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखोऽनलः। जज्वाल मृगशावाक्ष्याः शंसन्निव शिवं कपः ॥ ३२॥ हनुमज्जनकश्चापि पुच्छानलयुतोऽनिलः । ववौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः
॥ ३३ ॥ दह्यमाने च लादणूले चिन्तयामास वानरः॥३४॥ भाग्यप्रसक्तिरेव नास्तीति मन्यमानाया इदं वचनम् ॥२९॥ मम पातिव्रत्यं यदि हनुमान जानाति तदा शीतो भवेत्याइ-यदि मामिति ॥३०॥ यदि मां तारयदिति । मत्तारणे इदमेव ज्ञापकमिति भावः ॥३१॥ तत इति । ततःसीतोपगमात् । कपेरनलः कपिवालानिः मृगशावाक्ष्याः सीतायाःशुभशंसानिव प्रदक्षिणशिखो जज्वालेत्यन्वयः ॥३२॥ हनुमदिति । अनिलश्च पुच्छानलयुतोऽपि । प्रालेयानिलशीतलः हिममारुतवच्छीतलस्सन् । देव्याः सीतायाः। स्वास्थ्यकरः सुखकरः ववौ । अस्मात्परं दह्यमाने च लागूल इति श्लोकः। अनयोःश्लोकयोर्मध्ये केचन श्लोकाः कतिपयकोशेषु दृश्यन्ते । बहुकोशेषु प्रयता शुद्धिमती॥२७॥ यदि पकपत्नीत्वम् पका पतिर्यस्याः सा एकपत्नी तस्या भावस्तत्त्वम् , पातिव्रत्यमित्यर्थः ॥ २८॥ तस्यरामस्प ॥२९-३१॥ मृगशावाक्ष्याः सीतायाः, महिम्नेति शेषः । अनलः पुच्छानला प्रदक्षिणशिखः प्रदक्षिणाकारज्यालस्सन् कः शिवं शंसन्निव जज्वालेति सम्बन्धः॥३२॥ किश्च हनुमज्जनका अनिलः पुच्छानलयुतः हनुमत्पुच्छानलसंयुतोऽपि देव्याः, प्रभावादिति शेषः । करित्यनुकर्षः । पालेयानिलशीतलः हिममारुतवच्छीतलस्सन स्वास्ज्यकरः सुखकरः ववाविति सम्बन्धः॥३५॥३५॥
For Private And Personal