________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
मा.रा.भू.
स्वकर्मभिः आस्फोटनसिंहनादेरित्यर्थः। तां पुरी घोषयन्तः। अत्यन्तसंयोये द्वितीया । चारयन्ति स्म, समिति शेपः ॥ १८॥ चारयामासस शोधयामास ॥ १९ ॥ चत्वरान् गृहबहिरङ्गणानि ॥२०॥ शृङ्गाटकानि चतुष्पयानि । रथ्याः महावीथीः। उपरथ्याः अवान्तरवायी। गृहकान्तरान् ।
स-५३ शङ्कमेनिनादैस्तं घोषयन्तः स्वकर्मभिः। राक्षसाः क्रूरकर्माणश्चारयन्ति स्म तां पुरीम् ॥ १८॥ अन्वीयमानो रक्षोभिर्ययौ सुखमरिन्दमः। हनुमांश्चारयामास राक्षसानां महापुरीम् ॥ १९॥ अथापश्यदिमानानि विचित्राणि महाकपिः । संवृतान भूमिभागांश्च सुविभक्तांश्च चत्वरान् ॥ २०॥वीथीश्च गृहसंबाधाः कपिःशृङ्गाटकानि च । तथा रथ्योपरथ्याश्च तथैव गृहकान्तरान् । गृहांश्च मेघसङ्काशान् ददर्श पवनात्मजः ॥ २१ ॥ चत्वरेषु चतुष्केषु राजमार्गे तथैव च । घोषयन्ति कपि सर्वे चारीक इति राक्षसाः॥२२॥ स्त्रीबालवृद्धा निर्जग्मुस्तत्र तत्र कुतूहलात्। तं प्रदीपितलाङ्गलं हनुमन्तं दिदृक्षवः ॥२३॥ दीप्यमाने ततस्तस्य लांगूलाग्रे हनूमतः। राक्षस्यस्ता विरूपाक्ष्यः शंसुर्देव्यास्तदप्रियम् ॥ २४ ॥ यस्त्वया कृतसंवादः सीते ताम्रमुखः कपिः । लाशूलेन प्रदीप्तेन स एष परिणी
यते ॥२५॥ श्रुत्वा तद्वचनं ऋरमात्मापहरणोपमम् । वैदेही शोकसन्तप्ता हुताशनमुपागमत् ॥२६॥ गृहकाणि क्षुद्रगृहाणि, अन्तराणि प्रच्छन्नद्वाराणि अन्ताराणीत्यर्थः । " तोरणोऽस्त्री बहिरं प्रच्छन्नदारमन्तरम्" इति वैजयन्ती । अक्लीवत्वमार्षम् ॥२१॥ चत्वरेष्विति । चत्वरेषु चतसृणां रथ्यानां संभेदेषु । चतुष्केषु चतुस्तम्भमण्डपेषु । चार एव चारीकः । स्वार्थे कप्रत्ययः । आषों दीर्षः ॥२२॥२३॥शंसुः शशंसुः । आर्यों द्विवचनाभावः ॥२४॥ परिणीयते परितो नीयते ॥ २५॥ उपागमत् उपासितवती ॥२६॥ श्रममित्यत्र चिन्तासमाप्तिद्योतकमितिकरणं इष्टव्यम् ॥ १६ ॥ १७ ॥ शवेति । स्वकर्मभिः धास्फोटसिंहनादैः ता पुरी घोषयन्तः तं चारयन्ति स्मेति सम्बन्धः ॥ १८ ॥ चारयामास चोदयामासेत्यर्थः ॥ १९ ॥ चत्वरान् गृहबहिरङ्गणानि ॥ २०॥ सम्बाधाः गृहै। सम्बाधाः निविड़ाः रथ्याः। शृङ्गाटकानि चतुष्प | थानि । उपरथ्याः क्षुद्रवीधीः । चत्वरेषु चतसृणां रथ्यानां सम्बन्धेषु । चतुष्केषु चतुस्तम्भमण्ट।। चार एवं चारीकः ॥२१-२३॥ शंसुः शशंसुः ॥२४॥ परिणीयते परितो नीयते ॥ २५ ॥ आत्मापहरणोपमं ताहग्दुःखजनकमित्यर्थः । हुताशनमुपागमत पासितवती ॥२६॥
For Private And Personal