________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsun Gyarmandir
अस्मिन् विनष्ट इति । दीर्घपथावरुद्धौ दूरमार्गेण निरुद्धगमनावित्यर्थः । एतच्छोकानन्तरं पराक्रमोत्साहमनस्विनां चेति श्लोकः । ततो हिताश्चेति शोकः । अथ तदेकदेशेनेति श्लोकः । अथ निशाचराणामिति सर्गान्तश्लोकः । अयमेव पाठकमः समीचीनः । अन्येप्यत्र सर्गे श्लोकाः कल्पिता
तस्मानास्य वधे यत्नः कार्यः परपुरञ्जय । भवान् सेन्द्रेषु देवेषु यत्नमास्थातुमर्हति ॥ २१ ॥ अस्मिन् विनष्टे नहि दूतमन्यं पश्यामि यस्तो नरराजपुत्रौ । युद्धाय युद्धप्रिय दुर्विनीतावुद्योजयेद्दीर्घपथावरुद्धौ ॥२२॥ पराक्रमी त्साहमनस्विनां च सुरासुराणामपि दुर्जयेन । त्वया मनोनन्दन नैर्ऋतानां युद्धायति शयितुं न युक्ता ॥२३॥ ॥ हिताश्च शूराश्च समाहिताश्च कुलेषु जाताश्च महागुणेषु । मनस्विनः शस्त्रभृतां वरिष्ठाः कोट्यग्रतस्ते सुभृताश्च योधाः ॥२४॥ तदेकदेशेन बलस्य तावत् केचित्तवादेशकृतोऽभियान्तु । तौ राजपुत्रौ विनिगृह्य मूढौ परेषु ते भाव यितुं प्रभावम् ॥ २५॥ निशाचराणामधिपोऽनुजस्य विभीषणस्योत्तमवाक्यमिष्टम् । जग्राह बुद्धया सुरलोक
शत्रुर्महाबलो राक्षसराजमुख्यः॥ २६ ॥ इत्यार्षे श्रीरामायणे. श्रीमत्सुन्दरकाण्डे द्विपञ्चाशः सर्गः ॥५२॥ दृश्यन्ते ॥२२-२४ ॥ रामानु०-अस्मिन्निति । उद्योजयेद्दीर्घपथावरुदावित्यतः परं पराक्रमोत्साहमनस्विनां चेति श्लोकः । ततः परं हिताश्चेति श्लोकः । तदनन्तरं तदेकदेशेनेति । ततो निशाचराणामिति सर्गान्तश्लोकः । अयमेव समीचीनः पाठक्रमः ॥ २२-२४ ॥ तदिति । तत्तस्मात्कारणात् । एकदेशेनेति सहयोगे तृतीया । बलस्य सैन्यस्य ॥ २५ ॥ २६ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने द्विपञ्चाशः सर्गः॥५२॥ नाशो भवेदित्याशयेनाह-अपिचेत्यादि । इह पारम् इदं पारमित्यर्थः । नान्यं पश्यामि योऽत्रागच्छेदित्यर्थः ॥२०॥ तस्मात् पुनरागन्तुकाभावात् ॥ २१ ॥नन्वस्मिन् | हते अन्यस्यानागमने च का मम क्षतिः ? इष्टमेवेदम्, तबाह-अस्मिन् विनष्ट इति । तौ राजपुत्रौ दो य उद्योजयेत् तं न पश्यामि । ननु तदुद्योगाभावोऽपि ममेष्ट एव, नेत्याह युद्धप्रियेति सम्बोधनेन । युद्धप्रियस्य तव तयोरनागमनमेव क्षतिरिति भावः ॥ २२ ॥ महावीरस्य तब न कुत्रापि भयशङ्केत्याशयेनाह-पराक्रमे त्यादिना ॥ २३॥ हिताचेति । समाहिताः दानमानाभ्यां वशीकृता इत्यर्थः। सुभृताः सद्भृत्याः योधाश्च वर्तन्ते खल्विति शेषः ॥२४॥ तत् तस्मात्कारणात Mबलस्य सैन्यस्य एकदेशेन एकांशेन सह आदेशकृतः आज्ञाकारिणः केचित्कतिचित् भावयितुं प्रकाशयितुम् ॥ २५ २६ ॥ इति श्रीमहेश्वर तीर्थविरचितायो । पाश्रीरामायणतत्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायो द्विपक्षाशः सर्गः ॥५२॥
For Private And Personal