________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
आकाशगमनमतिदुष्करमित्यमुमर्थ कथयितुम् आकाशस्वरूपं वयते-सेवित इत्यादिना श्लोकसप्तकेन । कैशिकाचायः केशिके रागविशेपे आचायः विद्याधरविशेषरित्यर्थः । वज्राशनिसमाचातैः पावकैः बज्राशनिसमाषातैतुभिनीतः पावकैः। हव्यं वहता देवेभ्यो हव्यवहनार्थ गतेन चित्रभानुना वह्निना। विश्वे विश्वगते, व्यापक इत्यर्थः । देवराजगजाकान्ते ऐरावतभित्रदिग्गजाकान्ते। विताने वितानतुल्ये । वितत इति वितानविशेषणम् ॥१६५-१७३४
स सागरमनाधृष्यमभ्येत्य वरुणालयम् । जगामाकाशमाविश्य वेगेन गरुडोपमः ॥ १६४॥ सेविते वारिधाराभिः पतगैश्च निषेविते । चरिते कैशिकाचार्येरैरावतनिषेविते ॥ १६५॥ सिंहकुञ्जरशार्दूलपतगोरगवाहनैः । विमानैः संपतद्भिश्च विमलैः समलंकृते ॥ १६६॥ वजाशनिसमाघातैः पावकैरुपशोभिते । कृतपुण्यैर्महाभागैः स्वर्गजिद्भि रलंकृते ॥ १६७॥ वहता हव्यमत्यर्थ सेविते चित्रभानुना । ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते ॥ १६८ ॥ महर्षिगणगन्धर्वनागयक्षसमाकुले । विविक्ते विमले विश्वे विश्वावसुनिषेविते ॥ १६९॥ देवराजगजाकान्ते चन्द्रसूर्य पथे शिवे । विताने जीवलोकस्य वितते ब्रह्मनिर्मिते॥१७०॥ बहुशः सेविते वीरैर्विद्याधरगणैर्वरैः। जगाम वायुमार्गे तु गरुत्मानिव मारुतिः ॥ ७१॥ प्रदृश्यमानस्सर्वत्र हनुमान मारुतात्मजः । भेजेऽम्बरं निरालम्बं लम्बपक्ष
इवाद्रिराट् ॥ १७२॥ प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी। मनसा चिन्तयामास प्रवृद्धा कामरूपिणी ॥ १७३॥ रामानु०-सेवित इति । कैशिकाचार्यः । कैशिक गगविशेषः तदाचार्यः नुम्बुरुप्रभृतिभिरित्यर्थः । पग वतनिषेविते परावतमिति जुदीर्घमिन्द्रधनुरुच्यते । तेन निषेविते युक्ते "इन्द्रायुध विन्द्रधनुस्तहीर्घमृजु रोहितम् । ऐरावतं च विद्युत्नु चश्चला चपलेति च" इति वैजयन्ती । वचाशनिसमाघातः बचाशन्योस्समः तुल्यः आघातः अभिघातः येषां तैः । विविक्त इति । विश्वे| विशतीति विश्वः व्यापक इत्यर्थः । विताने उल्लोचभूते । “ अम्बी वितानमुलोचः” इत्यमरः । विद्याधरगणेवररित्यतः परम् जगाम वायुमार्गे तु गरुत्मानिव मारुतिरिति पाठक्रमः । उपरि| तु हनुमान् मेघजालानीन्यादिसाईलोकदर्य प्रमादाल्लिखितम् । प्रदश्यमानः सर्वत्रेति पाठः ॥ १६५-१७२ ॥ कर्म सुरसावकान्निष्क्रमणम् ॥ १६३ ॥ १६४ ॥ कैशिकाचार्यैः कैशिकं नृत्तादि तदाचार्यस्तुम्बुरुप्रभृतिभिः । ऐरावतनिषेविते पेरावतम् इति ऋजुदीर्घमिन्द्रधनु रुच्यते ॥ १६५ ॥ १६६ ॥ बजाशनिसमाघातैः वज्राशन्योस्समः तुल्यः आघातोऽभिघातो येषां नेः पावकः ॥ १६७ ॥ आकाशस्य एकोनपक्षाशदान सम्बन्धमुक्त्वा तत्प्रधानभूतचित्रभानुसम्बन्धमाह-बहननि ॥ १६८॥ विश्धे विधयापके। विधायसः गन्धर्वराजः ॥१६९-१७३ ॥
For Private And Personal