________________
Shri Mahavir Jain Aradhana Kendra
खा.रा.भू. ॥११॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अद्येति । दीर्घस्य कालस्य दीर्घकाले गते सति अद्य आशिता आशित्री भुक्तवती भविष्यामि ॥ १७४ ॥ इतीति । समाक्षिपत् सम्यग्गृहीतवती । ॥ १७५ ॥ समाक्षिप्त इति । पङ्कृतपराक्रमः कुण्ठितगतिः । प्रतिलोमेन प्रतिकूलेन ॥ १७६ -१७८ ॥ छायाग्राहीति । तदिदं छायाग्राहि कपिराजेन टी.मुं.कां. कथितं नात्र संशय इति योजना ॥ १७९ ॥ १८० ॥ घनराजीवेति । समभिद्रवत् समभ्यद्रवत् ॥ १८१ ॥ स ददर्शेति । कायमात्रं देहप्रमाणम् ॥ १८२ ॥ अद्य दीर्घस्य कालस्य भविष्याम्यहमाशिता । इदं हि मे महत्सत्त्वं चिरस्य वशमागतम् ॥१७४॥ इति संचिन्त्य मनसा छायामस्य समाक्षिपत् । छायायां गृह्यमाणायां चिन्तयामास वानरः ॥ १७५ ॥ समाक्षिप्तोऽस्मि सहसा पङ्गकृत पराक्रमः । प्रतिलोमेन वातेन महानौरिव सागरे ॥ १७६ ॥ तिर्यगूर्ध्वमधश्चैव वीक्षमाणस्ततः कपिः । ददर्श स महत्सत्त्वमुत्थितं लवणाम्भसि ॥ १७७ ॥ तद्दृष्ट्वा चिन्तयामास मारुतिर्विकृताननम् । कपिराजेन कथितं सत्त्वमद्भुतदर्शनम् ॥ १७८ ॥ छायाग्राहि महावीर्यं तदिदं नात्र संशयः । स तां बुद्ध्वाऽर्थतत्त्वेन सिंहिकां मतिमान् कपिः । व्यवर्धत महाकायः प्रावृषीव बलाहकः ॥ १७९ ॥ तस्य सा कायमुदीक्ष्य वर्धमानं महाकपेः । वक्रं प्रसारया मास पातालान्तरसन्निभम् ॥ १८० ॥ घनराजीव गर्जन्ती वानरं समभिद्रवत् ॥ १८१ ॥ स ददर्श ततस्तस्या विवृतं सुमहन्मुखम् | कायमात्रं च मेधावी मर्माणि च महाकपिः ॥ १८२ ॥ स तस्या विवृते वक्त्रे वज्रसंहननः कपिः । संक्षिप्य मुहुरात्मानं निष्पपात महाबलः ॥ १८३ || आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः । ग्रस्यमानं यथा चन्द्रं पूर्ण पर्वणि राहुणा ॥ १८४ ॥ ततस्तस्या नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य वानरः । उत्पपाताथ वेगेन मनस्संपातविक्रमः ॥ १८५ ॥ स इति । मुहुस्संक्षिप्य संनिकर्षानुगुणं सङ्कय ॥ १८३ ॥ १८४ ॥ तत इति । ततः तेन रूपेण मनस्संपातविक्रमः मनोवेगतुल्यगतिः ॥ १८५ ॥ रामानु० तत इति । अथ वानरः मनःपातविक्रमस्सन् मनोगमनसमानगतिस्पन् तीक्ष्णैर्नवैस्तस्था मर्मायुकृत्य ततः आस्यात् वेगेनात्पपात आस्यपिचानात् पूर्वमेवोत्पपातेत्यर्थः ॥ १८५ ॥ अद्येति । आशिता मुक्तवती । समाक्षिपत् जमाह ॥ ७४-१७९ ॥ पातालान्तरसन्निभम् पानालविवरसदृशम् ॥ १८० ॥ ८१ ॥ कायमात्रं शरीरप्रमाणम्, | स्वशरीरकवलन पर्याप्तमित्यर्थः । मुखं ददर्श । मर्माणि प्राणस्थानानि संक्षिप्य ॥८२-८४॥ मनस्सम्पातविक्रमः मनोगमनसमानगतिः ॥ १८५ ॥
For Private And Personal
स० [१
N??H