________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
विशेषणान्तरोपादानं तेपां सामर्थ्य विशेषयातनार्थम् । पतत्कर्षवपरिहाराय व्युत्क्रमेण योजनीयम् । इन्द्रः परमेश्वर्यवान् । “ इदि परमैश्वर्ये " इत्य स्माद्धातोः “ऋजेन्द्राग्र-" इत्यादिना निपातनात्साधुत्वम् । त्रैलोक्याधिपतिरपि त्रातुं न शक्त इत्यर्थः । तस्य त्रैलोक्याधिपतित्वेऽपि परनिरसना सामर्थ्याभावादशक्ततेत्यवाह-महेन्द्र इति । वृत्रहननप्रसिद्धसामोऽपि न शक्तः। “यो वृत्रमवधीदिति तन्महेन्द्रस्य महेन्द्रत्वम् " इति श्रौतनिर्मच। नम् । स्वयं चतुरोऽपि सहायसम्पत्त्यभावान्न शक्त इत्यत्राह सुरनायक इति । स्वतुल्यत्रयस्त्रिंशत्कोटिसुरगणसहायोऽपि न शक्त इत्यर्थः । मा भूक्षुद्र इन्द्रश्शक्त, सर्वसंहारको रुद्रस्तु शक्तस्स्यात्तत्राह रुद्र इति । संहारकाले प्रजाः रोदयतीति रुद्रः। "रोदेर्णिलुक च" इति रप्रत्ययः। कालविशेष संहारकोऽपीदानीमप्राप्तकालत्वादशक्त इत्यवाह त्रिनेत्र इति । निटिलनयनदहनज्वालाविलोपितमदनोऽपीत्यर्थः । काकतालीयत्वशङ्काव्युदासायाह त्रिपुरान्तक इति । प्रबलतरमहासुरसंहारकोऽपीत्यर्थः । मा भूत्तस्य शक्तिः “ब्रह्मणः पुत्राय ज्येष्ठाय श्रेष्ठाय" इत्युक्तरीत्या रुद्रस्थापि पिता ब्रह्मा Kaशक्तस्स्यात्, तबाह ब्रह्मेति । बृहतीति ब्रह्मा । “बृहेरम् नलोपश्च" इति मनिन् अमागमो नकारलोपश्च । रुद्रपिता स्वयं कर्मवश्यः कथं शक्नुयात्
तबाह स्वयंभूरिति । कर्मवश्यत्वेऽपीतरसाधारण्येनानुत्पन्नः स्वयंभूः । स्वयंभूत्वेपि सहायसंपत्त्यभावात्कथं चायेतेत्यत्राह चतुरानन इति । युगपदेव
सर्ववेदोचारणसम्पादितातिशयोऽपि न शक्तः । प्रत्येकमशक्तत्वेऽपिकि संभूयागताशक्नुवन्ति ? तबाह न शक्ता इति। बहुवचनेनायपों लभ्यते-वधमई पतीति वध्यः । दण्डादित्वाद्यः। रामस्य वध्यो रामवध्यः । तंत्रातुं न शक्ताः । स्थानविनिमहस्थच' इत्युचितवधाहस्य त्राता कः। युधि युद्धे न शक्ताः
किन्तु शरणं गत्वा त्रातुं शक्ता इत्यर्थः । अन" हिरण्यगर्भस्समवर्तताग्रे । न सन्न चासीच्छिा एव केवलः। इन्द्रो मायाभिः पुरुरूप ईयते” इति । परदेवतात्वेन प्रसक्तात्रिकादधिकत्वमुक्तम् । राम इत्यनेन वेदान्तोदितानां सद्ब्रह्मादिसामान्यशनानां हिरण्यगर्भशिवेन्द्रादिविशेषशब्दानां च व्यक्ति विशेषपरन्वं व्यनितम् । त्रातृत्वेन प्रसतप्रधानदेवतानिराकरणप्रकरणे विष्णोरनुपादानात् पारिशेष्याद्राम एव विष्णुरिति प्रतिपादितम् ॥ १५ ॥ यो वृत्रहा स महेन्द्रः " महान्या अयमभूद्यो वृत्रमवधीदिति तन्महेन्द्रस्य महेन्द्रत्वम्" इति श्रुतेः । त्रैलोक्ययन्तृत्वधुत्रहन्तृत्वसर्वसुरसंवृतत्वादिधविशिष्टो वज। पाणिर्वा । रुद्रः संहारकाले प्रजाः संहरन रोदयतीति रुद्रः । रुतं शब्द वेदात्मानं ब्रह्मणे कल्पादौ रातीति वा रुद्रः। यद्वा रुता नादेन सकलं जगदिदं दावयतीति बृहस्पतिः' इति व्याख्यानात् । अस्वयंभूः स्वयम्भूभिन्नः स्वयम्भूसदृशो वायुः । चतुराननो विरिवः । वाशब्दस्सर्वत्रान्वेति । रुनः करो यमः । त्रिनेत्रो रुद्रः । त्रिपुरान्तेन रुद्रेण के शिरो यस्य दक्षस्य विनाश कस्य वा । इन्द्रः शचीपतिः । अमहेन्द्रः वृत्रहेतरः तत्सदृशः कामः । सुरनायकः सुरसेनानायकः पन्मुखः ॥ ४५ ॥
For Private And Personal