________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
प्रमाणाभावादिति भावः । ननु यदि धर्मः अधर्मनाशनः तहि प्राथमिक एष धर्मः आधुनिकानपमान्निवतयदित्याशङ्कयाह-प्राप्तमिति । तावच्छन्दः कात्स्यवाची । कृत्यं धर्मफलम् । फलमस्यति । तथा च क्षिप्रं धर्ममाचर अन्यथा सद्यस्ते विनाशो भविष्यतीति भावः । अत्र कर्तव्यत्वेन विधीय
प्राप्तं धर्मफलं तावद्भवता नात्र संशयः । फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे ॥ २९ ॥ जनस्थानवधं बुद्ध्वा बुद्ध्वा वालिवधं तथा । रामसुग्रीवसख्यं च बुद्धचस्व हितमात्मनः ॥३०॥ कामं खल्वहमप्येकः सवाजिरथकुञ्ज राम् । लङ्का नाशयितुं शक्तस्तस्यैष तुन निश्चयः ॥ ३ ॥ रामेण हि प्रतिज्ञातं हयृक्षगणसन्निधौ । उत्सादन ममित्रार्णा सीता यैस्तु प्रधर्षिता ॥ ३२॥ अपकुर्वन् हि रामस्य साक्षादपि पुरन्दरः।न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः ॥ ३३॥ यां सीतेत्यभिजानासि येयं तिष्ठति ते वशे। कालरात्रीति तां विद्धि सर्वलङ्काविना शिनीम् ॥३४॥ तदलं कालपाशेन सीताविग्रहरूपिणा । स्वयंस्कन्धावसक्तैन क्षममात्मनि चिन्त्यताम् ॥ ३५॥ मानो धर्मस्सीताप्रदानपूर्वकरामविषयशरणागतिरख । शूरस्याशीयप्रवृत्त्या धर्मफल सर्व क्षीणमिति हनुमताऽवगतमिति मन्तव्यम् ॥२८॥२९॥मा भूद्धर्मापेक्षा कार्योपस्थितिरवेक्ष्यतामित्याह-जनस्थानेति । रामसुग्रीवसख्यं चेति परोक्षनिर्देशस्त्य गतिः पूर्वमुक्ता ॥ ३० ॥कामम् अत्यन्तम् । अहं
सुग्रीवः । एषः तन्नाशनम् । तस्य रामस्य । निश्चयः निश्चयाविषयः ॥ ३१॥ कथमित्यवाह-रामेति। यक्षगणसन्निधौ वृद्धसभायां प्रतिज्ञातमनतिकम । Vणीयमिति भावः ॥ ३२॥३३॥ कालरात्रीति काचिच्छक्तिरिते वदन्ति । "समी च कालरात्रिश्च भैरवी गणनायिका" इत्यमरशेषः॥ ३४॥ तदिति।
भवतीति लभ्यते । धर्माधर्मावनुभवेकर्षिनाश्याविति भावः ॥ २८॥ ननु महतः पुण्यफलानुभवस्य समापनन्तरम् अधर्मफलानुभयो भविष्यतीत्यत्राहप्राप्तमिति । धर्मफलं तावत् साकल्येन प्राप्त भुक्तम् । अस्याधर्मस्य सीताहरणरूपस्य ॥ २९ ॥ मानुषो रामः किं मा करिष्यतीति मा वाहेरित्याशयेनाद-ला जनस्थानेति॥१०॥ कामामिति । एष तु मत्कर्तृकलकाविनाधास्तु । सस्थ रामस्य । न निश्चयान सम्मत इत्यर्थः॥३१॥कृत इत्यत आह-रामेणेति ॥ ३२॥ अतिबलशालिनो मे सीतापहारेण रामादिमिः किमित्यत आइ-अपकुर्वन हीति कालरात्री महाप्रलयकी भगवतः शक्तिः ॥३४॥ विग्रहः शरीरम् । स्कन्धावसक्तेन स्कन्धसम्बन्धकरणेन । आत्मनि आत्मत्राणे ॥३५॥
For Private And Personal