________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailashagas Gyarmandir
तल्लब्धम् । तर्हि सा नीयतामित्यवाह-उत्तरमिति । सीतादर्शनोत्तरं यच्छेषं कर्म सीतानयनं तत्र राघवो निमित्तम् । आज्ञप्तस्यैत गणा कर्तव्यत्वादिति भावः ॥ २२॥ दृष्टयाऽपि मदशंवदया सीतया रामः किं करिष्यतीत्याशङ्कयाह-लक्षितेयमिति । तथेति वाचामगोचरत्वोक्तिः। नेयं तव वश्या प्रत्युत पन्नगीव तव प्राणहारिणीति भावः ॥२३॥ नेयमिति । ओजसा अमरपक्षे प्रतापेन । अन्नपक्षे जाठराग्निना ॥२४॥ तपःकृच्छलन्धमिष्टं मह
लक्षितेयं मया सीता तथा शोकपरायणा। गृह्य यां नाभिजानासि पश्चास्यामिव पन्नगीम् ॥ २३ ॥ नेयं जरयितुं शक्या सासुरैरमरैरपि । विषसंसृष्टमत्यर्थ भुक्तमन्नमिवौजसा ॥२४॥ तपस्सन्तापलब्धस्ते योऽयं धर्मपरिग्रहः। न स नाशयितुं न्याय्यमात्मप्राणपरिग्रहः ॥ २५ ॥
अवध्यता तपोभिर्या भवान समनुपश्यति । आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान ॥२६॥ जीवनं वृथा मा नाशयेत्याह-तप इति । तपस्सन्तापः तपश्चर्या । ओदनपाकं पचतीतिवन्निर्देशः। तेन लब्धः। परिगृह्यत इति परिग्रहः फलं धर्मपरि ग्रहः धर्मफलम् । तादृशो योऽयमात्मप्राणपरिग्रहः आत्मनः प्राणानां च परिग्रहः स्वीकारः, जीवनमिति यावत् । स नाशयितुं न न्याय्यं न युक्तम् । अव्ययमेतत् । तपःक्लेशलब्धं तब्यतिरिक्तधर्मफलभूतं च यज्जीवनमायुः तन्न विनाशयेत्यर्थः। चकाराभावादित्थमेव योजना ॥२५॥ सर्वावध्यस्येह मे कोऽयमायुर्विनाशक इत्याशङ्कय परिहरति--अवध्यतामिति । तपोभिरार्जितां सासुरैर्देवैर्याम् आत्मनोऽवध्यतां भवान् समनुपश्यति । तत्रापि कृतम् । उत्तरकर्तव्यं तु रामायत्तमित्याह उत्तरमिति ॥ २२ ॥ पञ्चास्या पन्नगीमिव यां गृह्य गृहीत्वा नाभिजानासि तथा शोकपरायणा वाचामगोचाशोकतत्परा इयं सीता मया लक्षितेति सम्बन्धः । परमपतिव्रता सीता शोकपरायणा सती लङ्कायां रुद्रेति कृत्वा लङ्का विनयतीति भावः ॥ २३ ॥ ओजमा आहारशक्ति बलेन ॥ २४ ॥ तपस्सन्तापलब्धः तपश्चर्यालब्धो योऽयं धर्मपरिग्रहः आत्मप्राणपरिग्रहः आत्मप्राणानां परिग्रहः, तवायुर्वर्द्धक इति यावत् । नाशयितुं न न्याय्य इति योजना ॥ २५ ॥ पितामहवरावध्यस्य मे केयं विभीषिकेत्याशयाह-अवध्यतामिति । तपोभिहेंतुभिः सासुरैर्देवैरात्मनो यामवध्यतां भवान् सपनु पश्यति तत्रापि यथा अवध्यत्वे तथैव वध्यत्वेपि अयं हेतुरिति योजना ॥ २६ ॥
सा-पञ्चास्यामियनेन श्रास्यस्थानीयानि रामो लक्ष्मणो राजाऽहं चेति चत्वारि स्वयं सीतेत्येक चेति पच आस्पानि यस्यास्सा ताम, विस्तृतमुखीं वा ॥ २३ ॥
For Private And Personal