SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir श.रा.भू. ११३- एवं सुग्रीवसंबन्धं प्रतिपाद्य सुग्रीवसन्देशं वदति-तद्भवानित्यादिना । दृष्टधर्मार्थः शास्त्रेण विदितधर्मार्थस्वरूप इत्यर्थः । तपःकृतपरिग्रहः तपसिटी .सं.का. विषये कृतस्वीकारः । यद्वा तपसा स्वयं कृतपरिग्रहः । स्वारसिकतपस्क इति यावत् । हेतुगर्भे विशेषणे ॥ १७ ॥ धर्मविरुद्धेषु धर्मशास्त्रास.५१ तद्भवान् दृष्टधर्मार्थस्तपःकृतपरिग्रहः । परदारान महाप्राज्ञ नोपरोढुं त्वमर्हसि ॥१७॥ न हि धर्मविरुद्धेषु बह्वपायेषु कर्मसु । भूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः॥ १८॥ कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम् । शराणा मग्रतः स्थातुं शक्तो देवासुरेष्वपि ॥ १९॥ न चापि त्रिषु लोकेषु राजन विद्येत कश्चन । राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात् ॥२०॥ तत्रिकालहितं वाक्यं धर्म्यमर्थानुबन्धि च । मन्यस्व नरदेवाय जानकी प्रतिदीयताम् ॥२१॥ दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम् । उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः ॥२२॥ विरुद्धषु । धर्मविरुद्धत्वेऽपि यत्सौख्यावह तत्कार्यमित्यवाह बपायेष्विति । बहुहानिकरेष्वित्यर्थः । अपायाः कथंचित्परिह्रियन्त इत्या शङ्कयाह मूलघातिष्विति । स्वविनाशकरेष्वित्यर्थः । कर्मसु परदारापहारेषु । न सजन्ते नोयुक्ता भवन्ति ॥१८॥ रामकोपानुवर्तिनां राम कोपानुसारेण निर्गतानामित्यर्थः॥ १९॥ व्यलीकम् अप्रियम् । “व्यलीकं त्वप्रियेऽनृते" इत्यमरः ॥२०॥ तदिति । तत्तस्मात् अधर्मावहत्वात रामापराधस्य परिहर्तव्यत्वाच्च । त्रिकालहितं भूतभविष्यद्वर्तमानकालहितम् । दारुणाधर्मस्य स्वपूर्वपुरुषविनाशकत्वेन तत्परिहारस्य भूतकाल हितत्वं मन्यस्व । मत्वा प्रतिदीयतामिति योज्यम् ॥२१॥ जानकीहरणे किं मानं तत्राह-दृष्टा हीति । यत् सीतादर्शनम् दुर्लभम् । इतरवानरालभ्यं जानकी दृष्टा ॥१६॥ दृष्टधर्मार्थः धर्मार्थशाखपारहवा । तपाकृतपरिग्रहः कृततपःपरिग्रहः, महातपस्सम्पन्न इत्यर्थः । यस्मादेताहशस्त्वं तस्मात्परदारानुपरोढुं नाई। सीति योजना ॥ १७ ॥ अनेन मम का हानिरित्यत आह-नहीति । धर्मविरुद्धेषु अधर्मेष्वित्यर्थः । अधर्मफलमाह बहपायेषु बहुनर्थेषु । ननु सर्वापायप्रतीकार समर्थस्य किमियं वाचोयुक्तिः ? तबाह मूलघातिषु । मूलतो विनष्टः किं प्रतिकरिष्यतीति भावः ॥ १८ ॥ ननु सर्वमूलफलच्छेदिनो मे को मूलच्छेदीत्यत आइकश्चेत्यादि ॥ १९ ॥ व्यलीकम् अपराधम् ॥ २०॥ तद्वाक्यं सुग्रीवोक्तम् । त्रिकालहितं सीतानुपरोधेन पूर्वापराधनाशात् वर्तमानैश्वर्याविरोधात भाविशुभ हेतुत्वाच त्रिकालहितम् । धर्म्य धर्मादनपेतम् अर्थानुबन्धि च मन्यस्व जानीहि अतो नरदेवाय जानकी प्रतिदीयतामिति सम्बन्धः ॥२१॥ न च सीतात्र नास्तीत्यपहोतुं शक्यमित्याह-दृष्टा हीति । यत् सीतादर्शनरूपं वस्तु दुर्लभं सीतान्वेष गप्रेषितःसर्वैरपि वानरैः प्रातुमशक्यं नदिह मया लब्धम् । यावदाज्ञप्तं तावत् For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy