SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir स मार्गमाण इति । सुग्रीवेण मयेति शेषः । यद्वा लोक वक्तारः स्वात्मानमन्यमिव निर्दिशन्त्योद्धत्यातिशयात् । यद्वा अत्रानुवादात् पूर्व सुग्रीवेणैवं वक्तव्यमिति पठितं तथैव हनुमान् पठतीति समादेशप्राधान्यादन्यवाक्यमपि तथोच्यत इति केचित् प्राहुः । यद्वा सुग्रीवसन्देशस्य रामप्रयोजनपर स मार्गमाणस्तां देवीं राजपुत्रः सहानुजः । ऋश्यमूकमनुप्राप्तः सुग्रीवेण समागतः ॥ ८ ॥ तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम् । सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम् ॥ ९ ॥ ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम् । सुग्रीवः स्थापितो राज्ये हयृक्षाणां गणेश्वरः ॥ १० ॥ त्वया विज्ञातपूर्वश्च वाली वानरपुङ्गवः । रामेण निहतः सङ्ख्ये शरेणैकेन वानरः ॥ ११ ॥ स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसङ्गरः । हरीन संप्रेषयामास दिशः सर्वा हररीश्वरः ॥ १२ ॥ तां हरीणां सहस्राणि शतानि नियुतानि च । दिक्षु सर्वासु मार्गन्ते ह्यधश्चोपरि चाम्बरे ॥ १३ ॥ वैन तेयसमाः केचित् केचित्तत्रानिलोपमाः । असङ्गगतयः शीघ्रा हरिवीरा महाबलाः ॥ १४ ॥ अहं तु हनुमान्नाम मारुतस्योरसः सुतः । सीतायास्तु कृते तूर्णं शतयोजनमायतम् ॥ १५ ॥ समुद्रं लङ्घयित्वैव तां दिदृक्षुरिहागतः । भ्रमता च मया दृष्टा गृहे ते जनकात्मजा ॥ १६ ॥ 37 त्वात्सन्देशोपयोगितया रामसुग्रीवयोस्सख्यादिकं दर्शयति-राजा दशरथ इत्यादिना ॥ ८-११ ॥ स इति । सत्यसङ्गरः सत्यप्रतिज्ञः । " कर्बुरे च प्रतिज्ञाजिसंविदापत्सु सङ्गरः इत्यमरः ॥ १२ ॥ रामानु० - सत्यसङ्गरः सत्यप्रतिज्ञः । " कर्बुरे च प्रतिज्ञाजिसंविदापत्सु सङ्गरः" इत्यमरः ॥ १२ ॥ तामिति । अधश्वोपरि चाम्बरे, पाताले भूमौ आकाशे चेत्यर्थः ॥ १३ ॥ वैनतेयेति । असङ्गगतय इति शीघ्रत्वे हेतुः ॥ १४ ॥ अहन्त्विति । औरतस्सुतः क्षेत्रजत्वव्यावृत्तये औरसपदम् । सीतायास्तु कृते सीतालाभाय तां दिदृक्षुरिति योज्यम् ॥ १५ ॥ १६ ॥ यन्मयोच्यते तदेव तदीयाशयेन हनुमान् स्वयमेव सर्वं सन्दिशति - राजा दशरथ इत्यादिना जानकी प्रतिदीयतामित्यन्तेन ॥ ४-१० ॥ त्वयेति । त्वया विज्ञात पूर्वश्व वालीति ममक्तिः। स तेन निहत इति पाठः । रामोत्कर्षश्च प्रतिपादित इति ज्ञेयम् ॥ ११-१५ ॥ त्वां दिक्षुरिहागत इति पाठः । त्वां सुमीवभ्रातरं रावणम्, तस्मिन् दृष्टे सर्वलोकवृत्तान्तज्ञः स सीतागतिं वक्ष्यतीति सुग्रीवेणोक्तत्वात्वां दिक्षुरिहागतः, दैवात्पङ्गपरि गङ्गानिपतनवत् तव गृहे भ्रमता मया For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy